पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- , दद्वतावादः। वादपि न चतुर्थ्यन्तत्वस्य तद्धिनार्थ पवेशः । तमुच्चार्यत्वमेव तद्धि तार्थ: स्यात् त्यागकालोचार्यत्वस्याप्यन्य लभ्यत्वादिचेत् ? न, ता. वन्मात्रस्य तद्धितार्थत्वे सौर्य चरुं वायव्यं श्वेतमित्यादौ दैनीयन्या- यसिद्धाया यागकल्पनाया अनुत्थानापत्तः । अथ तद्धिताभिहितं त्यागकालाच्चार्यत्वं विधिनियतशब्देनैवान्वेति तथामत्येव तद्धित- स्योक्तलक्षणदेवतात्वप्रतातिपर्यवसानसम्भवात् । विधिना चाग्नि- प्रातिपदिकमेव नियम्यते न चतुर्थी, उक्तलक्षणयागस्वरूपेणैव नियमेन तदाक्षेपात् अतोनाग्निशब्दन चतुर्थन लक्षणेत्युच्येत । तदप्यसत् । सामान्यापेक्षस्य चतुर्थ्यामिव प्रातिपदिकेपि तुल्यत्वा- त अन्याधाम्नातविशेषरूपेण प्रातिपादिकस्येवाग्मयध्रियस्वत्या- द्याम्नातैकवचनादिरूपेण चतुर्था अपि नियम्यत्वात् , अन्य- था 'मौद् चळं निर्वपेत् श्रीकाम' इति 'मरुद्भ्यः स्वतवत्भ्यः सप्तक- पाल' मितिच विहितयागयोः श्रीया इतिव तवय इति शब्दोचार- णेनापि देवतोद्देशासिध्यापत्तेः । अत एव 'विधिशब्दस्य मन्त्रत्व' इत्यधिकरण मिश्रः शब्दनियमप्रदर्शनावसरेऽनयइति शब्दमुच्चार्य हविस्त्यजेदित्येव विध्यर्थोदर्शिता नतु चतुर्थतमग्निशब्दमुच्चार्येति, अतश्चतुर्यतस्य तद्धितार्थान्वयाय तद्धिनप्रकृत्या स्वार्थवाचकत्व मव्याप्यवर्तिनमपि सम्बन्धं निमित्तीकृत्यानय इति शब्दो लक्षयि- तव्यः तददग्नीषोमशब्देन्द्राग्नीशब्दावपि लक्षयितुं शक्याविति कथ- मग्नीपोमीयैन्द्राग्नयोन चतुकरणापत्तिः। अथाग्नेयशब्दस्याग्नीषो- मीयप्रतिपादकत्वे सत्यपि यदाग्ने योष्टाकपाल इति यत्र पुरोडाशे दृष्टप्रयोगत्वं तमेव चतुर्थाकरणवाक्ये ऽसौ वक्तुमर्हति नान्यमित्यु- च्येत ? ततः 'पुरोडाशं कूर्म भूत्वा प्रसक्तमपश्यन्' इति तत्रैव पुरोडा. शशब्दस्य दृष्टप्रयोगत्वात् 'पुरोडाशं चतुर्धा करोति' इतिविधिरापि स्वत एव आग्नेयमावविषयः स्यात् 'पुरोडाशंपर्यनिकरोति'इबपि तथा । अथ दृष्टप्रयोगत्वरूपकानादरेणाविशेषपत्तप्रकरणाख्यप )