पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वाचकवायोगात्स्वायत्ते शब्दपयोगे कि मित्यवाचकं प्रयोक्ष्यामह इति न्यायमालोच्याग्निशब्दाय मूर्यशब्दायेत्येव शब्दोच्चारणं तत्वेन त्वभ्युपेयं स्यात् । अथ चतुर्थ्यतत्त्वेन त्यागकालोचार्यत्वमेव देव- तात्वं शब्दगतं तद्धितादिप्रतिपाद्यमित्युच्यते ? उच्यतां तथा सति त्यागकाले यद्यपि नानिष्टशब्दप्रयोगापत्तिः तद्धितप्रकृतिमात्रस्य त्यागकालीन चतुर्यन्तपदोचारण बाधकाभावात् । नापि देवता प्रकाशनार्थेष्वपि मारुत्वतेषु आवाहनादिनिगमेषु 'धान्यममी'तिव दाम्नातैरन्यादिशब्देरैव लक्षणया देवताभूतशब्द प्रकाशनौचि- त्यात् । तथापि सौर्यादिनिकृतिगतप्वाचाहनादिनिगमेषु प्राकृत द- वतापदस्थानेऽवश्यकर्तव्ये वे कृतदेवताप्रकाशकपदपक्षपे स्वायत इत्यायुक्तन्यायात् मूर्य शब्दायेत्येवोहः प्रसज्यत न मूर्यायेति । ननु दशमे 'तथोत्तास्यां नतोतत्प्रकृतित्वाद्' इत्यधिकरण सौर्याङ्गभूतेषु निगमे यु मूर्य देवतागकाशनायानियतशब्दोचारणं पूर्व- पक्षीकृत्य न सौर्यविधिना त्यागलायामेव मूर्यशब्दोनियम्यते, किंतु कृस्ने प्रयोगे यावत्सु प्रदेशेषु देवताप्रकाशनायानियतशब्दांचारण मपेक्ष्यते तत्र सर्वत्रापि युग पदेकरूपमूर्यशब्दोच्चारण नियम्यत कार- काणां भावनान्वयनियमेन देवनात्मककारकविशेषात्मनः शब्दस्यापि भावनान्वयनियमाद्विततभावनाया एव च प्रयोगत्वादिति सिद्धा- न्तितं, ततश्च कालादिवत् प्रयोगानुवन्ध्यङ्गत्वं देवताया यद्यपि ना- स्ति, तथापि त्यागे निगमेषु च शब्दैक्यनियमात् त्यागवेलायाम- प्रयुक्तस्य शब्दशब्दशिरस्कमर्यशब्दस्यादित्यादिशब्दानामिव निगमेषु प्रयोगापत्तिरिति । मैवम् । यद्यपि सर्वत्र सूर्यशब्दनियमेन तत्पर्याया निवर्तन्ते तथापि नास्यैकरूप्यमपि नियमगोचरः नहि त्यागवेलायां चतुर्थ्यन्तोऽसौ प्रयुक्त इति निगमेष्वपि तथैव निय- म्यते अतो यथैव तत्तन्निगमकार्यभूतवाक्यार्थप्रतीत्यानुगुण्येन सूर्यशब्दस्यैव द्वितीयान्तषष्ट्यन्तादिरूपेण नियमेन निगमेषु प्रयो-