पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहि तमीमामान्यायप्रकाशे- विधेस्तद्धिनपकृत्यर्थगतविशेषरूपानपेक्षत्वान्नार्थवादादेस्तत्र प्रामाण्यं, तदनपेक्षितपि वस्तुनि मन्त्रार्थवादादः पामाण्याभ्युपगमे नक्षत्रेष्टि वाक्यशेषभ्योऽन्यादिदैवत्यकर्मसु अग्न्यादीनामधिकारः म्यात्तस्य च शब्ददेवतात्वं विना ऽसम्भवादनिच्छतापि शब्दस्यैव देवता. त्वमभ्युपेयं तथाहि 'अन्न ये कृत्तिकाभ्यः पुरांडाशमष्टाकपालं निर्वषेत्' इत्यादिनक्षत्रेष्टिसपीप श्रूयते ‘अग्मिर्वा अकामयत, अन्नादोदेवानां स्यामिति, स एतमयथे कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवप. त्'इनि 'प्रजापतिः प्रजा असृजत इत्युपक्रम्य 'स एतं प्रजापतये रोहिण्य चळं निरवपत्' इत्यादि अर्थस्य देव तात्वं स्वाल्मानमुद्दिश्य स्वत्वत्यागं कृतवानिति बाधितं, शब्दस्य देवतात्व तु सम्भवत्यग्ने- रप्यग्नये इति शब्द समुच्चार्य त्यागकर्तृत्वम् । यत्तु यस्य कर्मणा भाव्यग्नित्वं लक्षणया स जीवविशेषः प्रथमान्ताग्निशब्दनोच्यते वनमानाग्निभावस्तु चतुर्थ्यन्ताग्निशब्द- नेति वाक्यशेषबोधितस्यान्यायाधिकारस्यापपादनम् । तन्न, वाक्यशेषगतमुख्यानिशब्दे लक्षणैव दापो वरं हि ततोजघन्ये चतुर्थ्यन्ते लक्षणाश्रयणम् किश्च 'रुद्रो वा अकामयत, पशुपान् स्यामिति स एनं रुद्रायायै प्रयङ्ग चलं पयसि निरवपत् विष्णुर्वा अकापयत पुण्यं श्लोकं शृण्वीयं न मा- पापी कीर्तिरागच्छदिति स एतं विष्णवे श्रीगाय पुरोडाशं त्रिक- पालं निरवपत्' इति वाक्य शेषगनौ प्रथमान्तौ रुद्रविष्णु शब्दो नोक्त- रीत्या लक्षणयापि नेतुं शक्यौ तयोरजीववचनत्यस्य नित्यसिद्ध करूपार्थत्वस्य चेतिहासपुराणोपबृंहिताने कश्रुतिसिद्धत्वात , कथं च 'ब्रह्म वा अकामयत ब्रह्मलोकमभिजयेयमिति तदेतं ब्रह्मणेऽभि- जिते चरुं निरवपत् इति वाक्यशेषगतौ प्रथमान्त चतुथलो ब्रह्म शब्दौ परब्रह्मवाचिनौ सन्नौ भिन्नार्थों स्याताम् । यदपि मतं नक्षत्रेष्टिष्यकै कस्मिन्यागे तत्तन्नक्षत्रस्य तदधिष्ठा-