पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- कालोच्चार्यत्वादिलक्षणं देवतात्वं शब्दसमवायाह तद्धिनवाच्यत्वेन निर्णीतं स्यात् ततः प्रकृत्यर्थस्य तदन्वयानईत्वं सिध्येत् । नचैव वृद्धव्यवहारादिना नितमस्ति । अथ शब्दसमवायिदेवतात्वाभि- धानानुरोधेन देवतात्वस्य ताइक्लक्षणत्वमुच्यते तदा चक्रकापत्तिः । शब्दममवायिदेवतात्वाभिधानमिति यद्यपि लोके तद्धितार्थत्वेन शब्दसमवायिदेवतात्वं प्रसिद्धं भवेत् तथा 'वायुक्षेपिष्ठादेवते'त्या- दिवाक्य शेषाद्वायव्यादिकतिपयतद्धितेस्तावदर्थगतमेव देवतात्वम- भिधेयं येव हि वायव्यतद्धितसमर्पितदेवता विधिविहिता संवेह वा- क्यशेषे क्षिप्रगामित्वेन गुणेन स्तूयत इत्यविवादम् । न च शब्दस्य प्रसिद्धोयं गुणः स्तुत्य निर्देष्टुं शक्यते अनो यथाऽऽदित्यः प्राय- णीयः पयसि चरु'रिपत्रादितिमोदननेतिवाक्पशेपाचशब्दस्य लोकप्रसिद्धस्थाल्यार्थत्वपरित्यागेनौदनविविवे निति यत्रापि 'सौर्य चरु'मित्यादौ न वाक्य शेषस्तत्रापि वेदावधृतशक्त्यनुरोधेनौ- दनवाचित्वमेवाश्रीयते, तथा वायव्यतद्धितस्य वाक्यशेषादर्थगत- देवतावाभिधायित्वे निणीत यत्रापि सौर्यादौ नासौ, तत्रापि त- द्गतमभिधायित्वमेव स्वीकार्य, एवं च सूर्यगनत्वेन प्रसिद्धगुणप्रका- शकोयाज्यादिमन्त्रगतो'ज्योतिष्कृदसिविश्वमाभासि'इत्यादौ पदनि चयः सङ्गच्छते, तद्धितोक्तन्यायेन चतुर्थीमन्त्रामाणकमपि देवतात्व- मर्थगाम्येव, कथमन्यथा 'एषवह विर्यजते'इत्यादिवाक्यशेपमन्त्रवर्णाः सङ्गच्छेरन,तस्मादानामेव देवतात्वम् ,अतएव तिर्यगधिकरणे देवा- नामनधिकारसिध्यै भाष्यकारोक्तहेतुः सङ्गच्छते 'नदेवानां देवतान्त- राभावात्'इति, शब्दस्य देवतात्वे तदुच्चारणस्यास्माभिरिवेन्द्रादि- भिरपि कर्तुं शक्यत्वान्नानेन हेतुना तेषामनधिकारः सिध्येत् निर- स्तं चैतद्भाष्यवलेन शब्ददेवतामतं मित्रैः । अथार्थस्य देवतात्वे येन केनापि शब्देनादिश्यमानस्य देवतात्वापत्तिः ततश्च 'विधिशब्दस्य मन्त्रत्वों इतिन्यायविरोधः । नच शब्देनोद्देशं विना देवतात्वाऽयो-