पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दभावनाकथनम् । २९ ब्दी भावना । सा च लिङ्वांशेनोच्यते, लिश्रवणे 'अयं मां प्रवर्त्तयति' 'मत्प्रवृत्त्यनुकूलव्यापाखानयम्' इति नियमेन प्रतीयमानत्वात् । यच्च यस्मात्प्र- तद्बोधितार्थाक्षेपात् यथा आख्यातयोधितभावनाक्षेपात्कर्ता । यथा वा वत्सादिपदोपस्थापितादवस्थाविशेषाद्गोत्वमिति । अथ भावनान्यप्रवृत्तिपक्षे नागृहीतविशेषणान्पायेन प्रवृत्तेनियतं प्रत्या- य्यत्वाज्जातिवत्सैव लिङः शक्याऽस्तु नत्वाऽऽज्ञादिरनियतोव्या- पारः तत्प्रतीतिस्तु यद्यपि नाक्षेपाछूटते प्रवृत्तेस्तदविनाभावात्, तथापि लक्षणया भविष्यति मश्चाः क्रोशन्तीतिवत्सम्बन्धमात्रेण लक्षणोपपत्तेरिति चेत् । न, तत्रैव हि शक्यतापर्याप्तिः यन्मात्रा- तीत्यै भवति शब्दप्रयोगः यथा गोः सामान्यविशेषोभयात्म- कत्वेपि सामान्यज्ञापनायोच्यते "गवा क्रीणाति" यथा वा गीति. मात्रप्रतीत्या “एकं साम तृच"इति, यत्र तु नैवं, तत्र विशिष्टमेव शक्यं, यथा-स्नुपानवादिशब्देषु देवतातद्धितेषु वा, नहि ते पुत्र. मात्राभिधायिनो देवतामात्राभिधायिनो वा, एवं लिङदीनामपि प्रवृत्तिमात्रप्रत्यायनाय प्रयोगाऽदर्शनात्मवर्चनाभिधायित्वमिति । यद्यच्छब्दज्ञाप्यं तत्तद्वाच्यमिति उक्त्या च ज्ञाप्यज्ञापकभाव एव पदपदार्थयोरनादिः सम्बन्धो नतु पुरुषसङ्केतात्मेति सूचितम् । आदैनादिषु वृद्ध्यादिव्यवहारे पाणिनिसङ्केतस्येव सर्वार्थेषु सर्व- शब्दव्यवहारेषु विशेषसङ्केतस्योपजीव्यत्वे हि पाणिनिवास स्मर्येत । इदानींतनेन च केनचिदश्वादौ सङ्केतेन गोपदे प्रयुक्ते परे नेत्यं ब्रयुः न गोपदमश्ववाचकममुना सङ्केतेन प्रयुक्तमिति, गव्यश्वे च सङ्के. ताविशेषात् । न च सङ्कतमन्तरेणार्थबोधकः शब्दः प्रथमप्रयोगपि बोधयेदिति शङ्मयम्-वृद्धव्यवहारादिजन्यसम्बन्धग्रहस्य तत्स- हकारित्वात् । उक्तन्यायेन व्यक्तेरवाच्यत्वमित्यभिमत्याह ।