पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- न वासादिवत्प्रवृत्तिजनक किन्तु समीहितहेतुताज्ञापनेनेति वरं लिङः सर्वस्य प्रवर्तकत्वं येन तद्वाचित्वमङ्गीकृतमत आह । नियमनति । यद्यपि समीहितहेतुताज्ञानादेव प्रवृत्तिस्तथापि न तजननेन लिङः सर्वस्य प्रवर्तकत्वं येन तद्वाचित्वमङ्गीक्रियेत "विवाहेऽनृतं वदेत्" "देवान् पितृन्समभ्यर्च्य मांसमश्नीयात्" इ खादिविधिभिः प्रवृत्य स्वविषयस्याऽनिष्टाजनकत्वज्ञानजननात् । प्रकृत्युपयोगिनो विवाहतृप्त्यादीष्टहेतुताज्ञानस्यान्वयव्यतिरेक- सिद्धत्वेन विधिना तज्जननवैयर्थ्यान(१) । न चैवमनिष्टाजनकत्वं शक्यामिति शक्यम् । “अग्निहोत्रं जुहुयात्" इत्यादिविधिना इष्टसाधनत्वस्य प्रकारान्तरेणाप्राप्तस्य ज्ञापनात् । निषेध्यस्या- निष्टहेतुत्वस्य अप्रसक्तस्य निषेधासम्भवाच्च । श्येन विधिनाऽनिष्टा- हेतुत्वज्ञापनासम्भवाच्च(२)। नचानियतप्रतीतिजनकतया लिको- नेकार्थाभिधायित्त्वं युक्तं प्रवर्तनाभिधायिना तु लिङा सर्वत्र नियमेन जनिता प्रवर्तनाप्रतीतिः कचिदिष्टहेतुताज्ञानन्यापारण कचिदनिष्टहेतुताज्ञानव्यापारेण प्रवृत्तिं जनयतीत्याशयः । य चेति । नियमेनेत्यनुवर्तते । तेन च लभ्योऽर्थो द्विविधः । यस्माच्छब्दाबद्भासत एव नतु कदाचिदुच्चारितान्न भासते यथा गोशब्दात्खण्डव्यक्तिः यथा बर्हिरादिशब्दात्संस्कारविशेषः । यस्मादनन्तरं प्रतीयमानश्च यस्माच्छन्दादेव प्रतीयते न तु (१) यदि लिङ इष्टसाधनताबोधकत्वमेवास्थीयते तर्हि उदा- हृतस्थलेषु इष्टसाधनत्वस्यान्वयव्यतिरेकाभ्यामेव सिद्धत्वेन तद्वैयर्य- मेवः प्रसज्यते । नच तर्हि अनिष्टाजनकत्वमेव लिडोऽर्थ उच्यतां तवाहनचेत्यादि । तन्मात्रार्थकत्वे अग्रिहोत्रं जुहुयादित्यादाविष्टसा- धनत्वबोधासम्भवात् । येनयागेऽनियाजनकत्वाभाचाच माहि स्यादित्यनेन श्येन- भूताया हिसाया अनिष्टजनकत्वेन परंम्परया श्यनस्यापि त- "