पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दभावनाकथनम् । २७ तत्तदृष्टान्तेनाऽन्त्रिताभिधानं तयोः प्रसज्येत । एतेन प्रवृत्त्यन्यभा- वनापक्षेपि विधिभावनयोरवश्यवक्तव्येऽन्वये भावनां प्रति स्वर्गा- दिभाव्यस्य(१) विशेषणतायाः क्लुप्तत्वात् भावनाया अपि विधि प्रति विशेषणत्वमेवोचितम् । अत्र च व्यापारे मां प्रवर्त्तयतीत्यनुभ- वाच्च । अत्र च ग्रन्थेन साक्षाल्लिजन्यप्रतीतिर्लिङः प्रवर्तनाभि- धायित्वसाधकतयोपन्यस्यते शास्त्रानुमतयावद्विशेषणविशिष्टाधि. कारिकर्मकविधेयविशेषान्वितप्रवर्तनां लिङाऽनुभूय तावद्विशेषण- वैशिष्टयमात्मनि पश्यतः पुरुषस्य मामयमत्राऽयं प्रवर्त्तयतीति प्रती- तिसम्भवात् । नहि स्वर्गकामपदकल्पनात्प्राक् “विश्वजिता य. जेत" इति विधि शृण्वतः सम्भवति प्रतीतिर्मामयं प्रवर्तयतीति । तदुर्घ त्वतिदेशादिविशिष्टममुमालोचयतो "नासोमयाजी स. नयेत्"(२)इतिवद्विश्वजिति पुरुषविशेषपर्युदासाभावमनुपलम्भेन निर्णीतवतो भवति प्रथमं प्रतीतिः इष्टप्रथमयज्ञं कृतदर्शपूर्ण- मासं स्वर्गकाममयं प्रवर्त्तयतीति । ततश्च तादृशोऽहमिति निश्चयवान्स इत्थमुपलभते मामयं प्रवर्तयतीति । अत उदा. हृतप्रतीतिः स्वजनकीभूतप्रतीत्यन्तराक्षेपमुखेन तज्जनकतया लिङः प्रवर्तनाभिधायित्वसाधिकेति विवक्षितम् । सूचितं चैतद्विलक्षणार्थकवाक्यद्वयोल्लेखिप्रतीत्युपन्यासेन । 'अयं मां प्रवर्त्तयतीति वाक्यं हि स्वमते क्रियाविशेष्यकबोधजनक, द्वितीयं तु शब्दादिविशेष्यकमेव बोधं जनयति । न च लि. जन्यप्रतीतेर्द्विरूपत्वम् , तस्याः प्रवर्त्तनाविशेष्यकत्वनियमात्सम्भवति त्वार्थिकबोधस्यानियतावशेष्यकत्वमिति । अथ प्रवर्तनाज्ञानमपि (१) स्वर्गादिरूपभाव्यस्येत्यर्थः । (२) यथा येन सोमयागोनानुष्ठितस्तेन दर्शपूर्णमासयोः सानाय्य. यागो-दधिपयोयागो न कर्तव्य इति पुरुषविशेषस्य निषेधो- वर्तते तथाऽत्र नास्तीत्यर्थः ।