पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- 'वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धन तर्पिताः' इति, याज्ञव- स्क्योक्तदन्तहन्वादिशब्दैश्च तदधिष्ठ नृणां शुलोकस्थानामेव देव- तात्वं विवक्षितं, तेषां च प्रसिद्ध मेव द्युलोकस्थत्वादीतियथाश्रुत. स्यैव तस्य लक्षणप्रवेशे नानुपपत्तिरिति । आस्तामेवं, सपिण्डी- करणोत्तरश्राद्धेषु पार्वणदेवताविषयत्वादुक्तवचसां, तत्पूर्वभाविषु तु कर्तुः पित्रादीनां देवतात्वं विना का गतिः । स्थादेतत् अस्ति तावदिन्द्रादिभ्यः पितृणां स्वादश्यकर्म- जन्योत्तमलोकपाप्त्याख्यफलभावेन वैलक्षण्यं रात्रिसत्रन्यायन जातेष्टौ पुत्रगामिफलत्वस्येव श्राद्धपितृगामिफलत्वस्याश्यंभावात श्राद्धे च हविर्विशेषेण पितॄणां तृप्त्यानन्त्यं श्रूयते देशविशेपे कालविशेषे दत्तेन हविःसामान्येनापि, तद्यथा- 'खड्डामिषं महाशल्क मधु मुन्यन्नमेव च । लोहामिषं महाशाकं मांसं वाघीणसस्य च ।। यद्ददाति गयास्थश्च सर्वमानन्त्यमश्रुते' । इति । तत्तद्हविःस्वीकर्तृत्वात्तदुद्देश्यकोत्सर्गस्य च 'यद्ददाति गयास्थश्च सर्वमानन्य मश्नुते' इति । तत्तद्धविःस्वीकारपयुक्तविचित्रफलस्य पित्राश्रितत्वनिहाय च पितॄणां हविःस्वीकारोऽवश्यं वक्तव्यः ततश्चपितॄणां हविःस्वी कर्तृत्वात्तदुद्देश्यकोत्सर्गस्य च यददातिगयास्थ इतिविधौ ददा- तिना निर्देशान्न पितृ गां देवतात्वं, आस्ति च निषेधेषि ददातिना तनिर्देशः। 'न योपिढ्यः पृथग्दद्यादवसानदिनाहते । स्वभर्तृपिण्डमात्रेभ्यस्तृप्तिरासां यतः स्मृतेति' । अत्र च सपत्रीकानां पित्रादीनां श्राद्रीयदेवतास्वविवक्षया पृथक्त्वमात्रं निषिध्यते शूलपाण्युक्तरीया योषिदुद्देश्यकत्वमात्रं वे-