पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भूतं करणत्वमात्रं लक्ष्यते, उद्भिच्छन्देन च प्रकृत्यं - शेन मत्वर्थमात्रं लक्ष्यमिति गुणफलसम्बन्धविधानाल्ला- धवं भवति । धातोरत्यन्तपारार्थ्यादिकं तु न भवत्येव । धात्वर्थस्यैव फलोदेशेन विधानात् । अतश्चोद्भिच्छब्दस्य गुणसमर्पकत्वेन मत्वर्थ लक्षयित्वा गुणविशिष्टकर्मविधा- नं स्वीकार्यमुद्भिद्रता यागेन पशुं भावयेदिति । कर्म- नामधेयत्वे तु उद्भिच्छब्दस्य न मत्वर्थलक्षणा । मुख्य- यैव वृत्त्या यजिसामानाधिकरण्येन तस्यान्वयसम्भवात् । उद्भिदा यागेन पशं भावयेदिति । सम्भवति च मुख्य- ऽर्थे लक्षणा अश्रयितुं न युक्ता । सन्निकृष्टविधानं तु समानमेव । न च- “सोमेन यजेत' इत्यत्रापि सो- मपदस्य यागनामधेयत्वापातः गुणसमर्पकत्वे मत्वर्थ- लक्षणापत्तेरिति वाच्यम् । सोमपदस्य लतायां रूढत्वे- न यागनामधेयत्वानुपपत्तेरगत्या लक्षणाश्रयणात । उद्भिच्छब्दस्य तु नैवं वाच्यार्थः कश्चित्प्रसिद्धः । उद्भि- द्यते ऽनेनेति योगस्य तु गुणे इस यागेपि फलोद्भेदन- अत्र केचित् एकवचनान्तेन चीप्साशून्येन तदित्यनेन दध्यादी- नां वहूनां परामशासम्भवात् नपुंसकलिङ्गेन च तेन प्रास्मा अग्नि- भरतादित्यभिगतेन प्रास्माइति शब्देन षष्ट्या इत्र धानातंदुलनिर्द- शायोगात् दध्यादिविशिष्टसंसृष्टमेव परामृश्य च देवतासम्बन्धभया- दुद्भिच्छब्दस्य नामत्वमितिप्रतिज्ञेत्याशमा दृषितगुणविधिप्रकार- भिन्नमत्वर्थ लक्षणापरो न त्वदधम इति वक्तुं तस्य मत्वर्थलक्षणा-