पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयनिरूपणम् । ३६१ पक्ष करणत्वस्य गुणोपसर्जनत्वेन प्रतीतिर्लक्षणयैव वाच्या । तस्य तृतीयया प्रत्ययार्थत्वात प्राधान्येनोप- स्थितेः । यदापि गुणनिष्ठं करणत्वं फलोद्देशेन विधयं तदापि फलभावनायां करणत्वेनान्वयोग्यगुणनिष्टकरण- त्वोपस्थितिलक्षणयैव वाच्या । तृतीयाभिहितस्य कर- णकारकस्य क्रियान्वययोग्यस्य करणत्वेनान्वयायोग्य- त्वात् । करणशब्देनाभिहितं हि करणकारक तत्त्वेना- न्वययोग्यम् , न तृतीयाभिहितम् । करणशब्दादिवत्तृ- तीयातस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च करणत्वेनान्व- ययोग्यगुणनिष्टकरणत्वोपस्थितिर्लक्षणयैव वाच्या । लक्षणया चोपस्थितकरणत्वस्य करणीभूतस्य वा गुण- स्य फलभावनायां यत्करणत्वं तदपि लक्षणयैव वाच्य- म् । श्रूयमाणया तृतीयया गुणमात्रस्य यागं प्रति कर- णत्वाभिधानात् । अत एव तन्त्ररत्ने चतुर्थे करणीभू- णगोदोहनादे पश्वर्थत्वं समभिव्याहारादित्युक्तम् । अतश्च गुणफलसम्बन्धविधाने धातोरत्यन्तपारार्थ्यादिबहुदोष- वत्त्वादद्धिच्छब्दस्य गुणसमर्पकत्वे गुणविशिष्टकर्मवि. विधानमेव स्वीकार्यम् । तथा सति हि यजिना लघु- अतश्चति । तत्र हेतुं पूर्वोक्तदोषानास्कन्दितत्वमाह। तथा सती- ति । इतरगुणविधिप्रकारेभ्योज्यायानप्येषामनेकद्रव्यनिरूपिताने- कसम्बन्धानुपपत्त्याऽनेकयागकल्पनैवोचिता, ततः कथं यागस्येत्ये- कवचनमिति चेत् ?