पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- चेत् । न । यजेतेत्यत्र आश्रयत्ववाचकपदाभावात् । अथ सिद्धान्ते करणत्वमिवाश्रयत्वमपि लक्ष्यमिति चेन्न । आश्रयत्वापेक्षया करणत्वस्य लघुत्वेन तल्लक्ष- णाया एव युक्तत्वात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रयः, तत्वं चाश्रयत्वं करणत्वं च निष्कृष्टा शक्तिरिति लाघवम् । किं च गुणफलसम्बन्धविधाने करणीभूतो गुण- तेन्निष्ट करणत्वं वा फलोदेशन विधेयम् ? । तत्राद्य त्वादित्यभिप्रेत्याह । नेति । लक्ष्यामिति । भावनान्वयं परित्यज्य गुणकरणतावच्छंदकरूपनिरूपकत्वेनान्वयः कल्प्य इत्यर्थः । वाक्य- गम्येदृशान्वयकल्पनात्पदश्रुतिगम्यभावनान्वयनिर्वाहकस्य करण: त्वस्यैव कल्पनमुचितमित्याशयेनाह। आश्रयत्वेत्यादिना । निष्क शक्तित्वोपन्यामश्च श्रौतभावनान्वयनिर्वाहकत्वोपपत्यर्थः । तवापि यागान्तरकल्पनानिमित्तं गौरवमस्येव तस्यास्य गौरवस्य कोविशप इत्यत आह । किंचेति । तृतीयान्त इति तृतीयाशब्दौ तृतीयान्तप- रौ 'तृतीयातत्कृतार्थगुणवचनेने ति सूत्रस्थ शब्दवत् तृतीयांतशब्दा दरुणयेत्यादेपरि तदर्थविशेष्य समर्पकत्वनेतियावत् । तृतीयांतस्य- कहायन्येत्यादिः प्रतीतिप्रसङ्गादित्यर्थः। अरुणयति तृतीयाभिहि- तस्य कारकस्य क्रियान्यान्वयनियमयुक्तश्रुतसामानाधिकरण्यवाधः । यदि तु तस्य क्रियान्ये नाप्यन्वयोघटते तदा कांस्य भोजिन्यायन सामानाधिकरण्यानुग्रहार्थ एकहायन्यैवान्वयः स्यादिति भावः । अत एव च-साक्षात् क्रियानन्वयिकारकसमर्पकत्वादेव । ननु यदि धातुपारार्थ्यादिदोषान्तरैर्गुणविधित्वनिरासः कथं तर्हि मत्वर्थळ- भागाप्रसञ्जकविशिष्टविध्याख्यं गुणविधिप्रकरणं परे स्वीकारयन्ति ।