पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयनिरूपणम् । प्रति यागविधानं तस्मिंश्च गणविधानं युज्यते, वाक्य- भेदापत्तेः । नापि गणफलसम्बन्धविधानं सम्भवति, परपदार्थविधानन विप्रकृष्टार्थविधानापत्तः, धात्वर्थस्य खरूपेणाविधानात् तदुहशेन वान्यस्य कस्य चिदवि- धानाद्धातोरत्यन्तपारा.पत्तेश्च यज्यानर्थक्यापत्तश्च । न हि तदाऽनेन करणं समर्प्यत, गणस्य करणत्वेनान्व- यात । नापि फलं, पशोर्भाव्यत्वेनान्वयात् । अथ "गु- णफलसम्बन्धविधाने यागस्याश्रयत्वेन सम्बन्ध इति थैवार्पणं समुचितं कुर्वतोनाम्नः सम्भवनि सामानाधिकरण्यमित्या. शयः । विप्रकृष्टार्थविध्यापत्ती हेतुद्वयं अविधानादिति । पारायं खोत्तरप्रन्ययसाधुत्वार्थत्वं तदापत्तावानर्थक्यापतितुः आनर्थक्यं चाभिधेयगोचरतात्पर्यशून्यत्वं, चाभिन्नक्रमः । पारा पत्तश्चति । स्वार्थतात्पर्यवन्तौ धातुप्रत्ययौ विनिगमनविरहादुभावपि परस्परसाधुत्वमम्पादको न बन्यतरस्यैकान्तिकं परसाधुत्वार्थमवधारयितुं शक्य स्वार्थतात्पर्य शून्यत्वेन तु यस्तयोनिीयते स एकान्तेन परसाधुत्वार्थों भवति न चैतन्न्याय्यमित्याशयः । यद्यपि सत्यपि यागम्याश्रयत्वेन तस्य प्रकरणलभ्यत्वान्न धातोराश्रयतया स्वार्थसमर्पणपरत्वमिति परिहार: सम्भवति तथापि वाक्यभेदापा- दकं समभिव्याहृतधातोराश्रयममर्पकत्वमहृदयेनैव शङ्कितुमुचितम् । अहृदयवाचां च परिहारस्तादृशवाभिरेव कर्तुमुचितः यथा सौ- मिकोष्टिषु देवतापरिग्रहार्थमन्वाधानं कार्यमिति शङ्कायाः परिहार्थ- मुक्तमाकरे दीक्षणीययैव देवतापरिग्रहार्थत्वसिद्धर्न तत्कार्यमिति । वस्तुतोऽन्वाधाने दीक्षणीयायां च देवतापरिग्रहार्थत्वस्य स्तुतिमात्र- भवतः