पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीयांमान्यायप्रकाशे- शेर झ्यापेक्षायां आमिक्षापदशानिध्यादामिक्षारूपो वि- शंप इत्यगम्यते । यथाः- 'आमिक्षां देवतायुक्तां बदत्येष तद्धितः । आमिक्षापदसानिध्यात्तस्यैव विषयार्पणम इति । तथा- 'श्रुत्यैवोपपदस्यार्थः सर्वनाम्ना प्रतीयते । तदर्थस्तद्धितेनैव त्रयाणामेकवाक्यता इति । तस्माद्यथा वैश्वदेवीशब्दोपात्तविशेषसमर्पकत्वना- मिक्षापदस्य वैश्वदेवीशब्देन सामानाधिकरण्यं, एवं मा- मान्यस्याविधेयत्वाद्यज्यवगतयागविशेषसमर्पकत्वेन ना- मधेयस्य यजिना सामानाधिकरण्यम् । तसिद्धं नाम- धयानां विधेयार्थपरिच्छेदकतयाऽर्थवत्त्वम् । यथाहुः ‘त- दीनवायागविशेपमिद्धेः इति । नामधेयत्वं च निमित्तचतुष्टयात् । मत्वर्थलक्ष- णाभयात् । वाक्यभेदभयात् तत्पख्यशास्त्रात् तद्यप- देशाच्चति । तत्र उद्भिदा यजेत पशुकाम' इत्यत्र उद्भिच्छन्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात । तथाहि-उद्विच्छ दस्य गुणसमर्पकत्वे यागानुवादेन तावन्न गुणविधानं युज्यत, फलपदानर्थक्यापत्तेः।न चानेन वाक्येन फलं कर्नु यागविशेषणत्वेनैव बैजात्यार्पणमपेक्ष्यत इति वैजात्यस्य त-