पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयनिरूपणम् । शब्दवत् न सामानाधिकरण्यम् , किं तर्हि ? वैश्वदेव्या- मिक्षेत्यत्रामिक्षाशब्दवत् । वैश्वदेवीशब्दस्य हि देवतात- द्धितान्तत्वात्तद्धितस्य च ‘सास्य देवता इति सर्वना- मार्थे स्मरणात् सर्वनाम्नां चोपस्थितविशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसो वैश्वदेवीशब्दोपात्तो वि- लोत्पलवत परस्पराधिकार्थत्वेन सायानाधिकरण्यमित्यर्थः । वै. इचदेवीति । यद्यपि तद्धितस्य शक्तिजन्यप्रतीतिः सोन्पत्य आमि- क्षापदमपेक्षते यजिधातुजन्यप्रती तिस्तु स्वपर्यवसानाय न इत्य- स्ति वैषम्यं तथापि स्वानधिकार्थसमर्पकमपि पदन स्वसमानाधिक- रणतयाऽपेक्ष्यत इत्येतावता माम्येनैष दृष्टान्तः । ननु यथैवोद्भि- द्विधिविधेयस्य फलोद्भेदनकारित्वस्य तत्रैव नोद्भित्पदन सिद्धव- निर्देशस्तथैव तद्विधिविशेषस्य विधेयरूपस्य कथमत्रच तेन सिद्धव- निर्देश इत्यत आह । समर्पकत्त्वेनेति । विध्यपेक्षितरूपेणार्पणं सम- पणं, फलोद्भेदनकारित्वस्य हि साधनतात्मकस्य यागनेति यागं प्रति विशेष्यतया प्रतीयमानस्य क्रियान्वययोग्यत्वादसिद्धावस्थत्वं कृदन्त- करणादिशद्वैरिवोद्भित्पदेन यागोपर्सजन तया प्रतीयमानस्य च सिद्धावस्थत्वमितिसम्भवदवस्थादयस्य विधिनाऽसिद्धावस्थस्येव वि. षयीकरणायुक्ता तत्रैव सिद्धवनिर्देशानुपपत्तिः, विशेषरूपस्य तु वै. जायात्मनोधातुनामपदेन वाच्या, यागविशेषणत्वमन्तरेण प्रतीतेरप- सिद्धत्वादसम्भवदवस्थाद्वयस्य यागविशेषणतयैव विधिना विषयी. करणान्न सिद्धवनिर्देशानुपपत्तिः ततो यथा कारकान्वय योग्यस्य ट्रॅव्यादेविनियोगं कर्तुं विधिः कारकविभक्त्यन्त पदेनैव तदर्पणमपेक्षते कारकान्वयायोग्यस्य तु क्रमसाहित्यादिः पदार्थान्तरविशेषणत्वेनैव तदर्पणमपेक्षत इति तस्य तथैवार्पणं समुचितं तथा यागादेरुत्पत्ति