पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारमहितमीमांसान्यायप्रकाशे- करण्यं न नीलोत्पलादिशब्दवत् एकार्थकत्वेन । तत्र हि उत्पलशब्दस्यार्थादुत्पलादन्यो नीलशब्दस्य वा- च्यार्थो ऽस्ति नीलगुणः लक्षणया तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम् । उद्भिच्छब्दशब्दस्य तु यज्यवगतविशेषान्नान्यो वाच्योर्थोस्ति विशेषवाचित्वात तस्य । अतश्वार्थान्तखाचित्वाभावेन नामधेयस्य नील- तीति जनयन्न साधुत्वार्थः ? किमिति तर्हि गोपदगतयोगस्यालीक- त्वमिति चेत् ? शृणु । योगोनामानेकावयवशक्तीनां समुदायः ताश्च कार्यकगम्याः तत्र गमेडोंइत्यनुशासने सत्यपि न डोप्रत्ययस्य कर्तरि शक्तिः तदनुसारिप्रतीतेः पदान्तरे गोपदे चादर्शनात् एवमहीन- दध्यादिषदगतस्यापि योगस्यालीकवं बोध्यम् । उद्भित्पदगता- वयवशक्तीनां तु उत्क्षेपणं विभिन्नं शास्वविदितप्रयोगेषु प्रत्येक लब्धात्मकानामुद्भिपदजन्यप्रतीतिविशेष्ये च सम्भवदर्थकाणां गवादावश्वकर्णादाविव रूढेप्युद्भित्पदे शक्योऽपलापः एवं पद्मत्व- प्रकारप्रतीतिजनकतया रूढपि पङ्कजपदे न योगापलापसम्भवः तत्सिद्धं योगरूढोप्युद्भिच्छब्दः प्रकृतवाक्ये रूढया यागीयविशेष- रूपं प्रतिपदयन्नन्वेतीति न तस्य यज्यधिकार्थत्वेन सामानाधि- करण्यसम्भव इत्याशयः। नन्वेवमपि व्याप्यव्यापकजातिवाचिनोः उद्भिच्छब्दयजि- धात्वोर्लक्षणयकव्यक्तिपरत्वात् व्याप्यव्यापकजातिवाचिनोः तुल्य- त्वमत आह । यज्यवगतेति । यद्यपि यजिधातोर्न याय- विशेषरूपं वाच्यं तथाप्यवगत तावत्तेन ततोऽनवगते तस्मिन्नु- द्भित्पदस्य शक्तिग्रहायोगात् ततश्च सत्यपि वाच्यभेदे न नी- ..