पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- रण्येन नामधेयान्वयात् । तस्य च यजिना सामानाधि- णाभ्यां गोण्या च प्रवृत्युपपादनेऽपि रूढत्वमेव तत्त-कर्मण्याथ- यणीयं, लक्षणाशुपन्यासस्तु प्रसिद्धार्थत्यागन नामधेयत्वस्गाक- स्मिकत्वनिरासाथै, अन्यत्र प्रसिद्धस्प हि सहवार्थान्तरनाचित्वं दुर्ग्रह, पूर्वप्रसिद्ध्यैव कथं चित्सम्भवत्प्रवृत्तिकस्य तु सुग्रहं तदि- त्यनुभवसिद्धमेतत्सहृदयानां, अतो न यौगिकलेनोद्भित्पादस्प सामानाधिकरण्योपपत्तिरिति चेत् ? न, उदुपमाद्यवयवानां क्लसशक्तिभिरेव सम्भवत्प्रट त्तिकस्योद्भिच्छब्दस्य पोक्षणीशब्दन्यायन रुढिकल्पनायोगान , सम्भवति च यदिकं कर्म तत्फलसाधनमिति व्याप्तिवला. दवगतं सामान्यतः सामान्यतः फलोद्भेदनकारित्वं निमित्त कत्यादि स्पदप्रवृत्तिः विधेश्च फलावशेषपशूद्भेदकत्वं प्रत्यज्ञातज्ञापक- स्वं, युक्तं च गोदध्यादिशब्देषु लोकतामढनया प्रसिद्धषु योग शास्त्रस्याविवक्षास्वीकरणं न दिन्छन्दस्य रूढिप्रसिद्धिम्ति येन तद्गोचरयोगोपन्यासस्य साधुत्वसिध्यर्थत्वं कल्प्यत, नच सं- ज्ञात्वे रुढित्वं नियामकं डियोऽयमिति डित्येदंशब्दयो रूढत्वे तुल्येपि परिच्छेदकफलके डित्थशब्द एव संज्ञात्वव्यवहारेण तत्फ लताया एव संज्ञात्वाने यामकत्वावधारणात् । नच दादि पदे झांढ- स्वीकरणमुचितं तथा सति पिण्डपितृयज्ञवाक्येऽपावास्यापदस्य फल- कल्पनाभयेन कर्मपरत्वापचया पिण्डपितृयज्ञस्य दर्शाङ्गत्वप्रगङ्गात् , तस्माद्योगिकत्वेनैवोद्भिच्छन्दस्य सामानाधिकरण्यं यज्यधिकार्थत्वं च वाच्यमत आह । तस्य चेति । तच्छब्देन प्रकृतविधिवाक्यस्थ उद्भिन्छब्दः शृङ्गग्राहि- कया परामृश्यते । एतद्वाक्योत्तरप्रवृत्तवाक्यान्तरे हि श्रूयमा- ण उद्भिच्छब्दोयोगेन यजिसामानाधिकरण्यं गच्छेदपि