पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयनिरूपणम् । ३५३ वाच्यं, ततश्च संज्ञात्वसिद्ध्यै प्रथमतोयोन्वयबोधोऽवश्यांगीकार्यः तेनैवाबाधितेन वाक्यपर्यवसानानोद्भित्संज्ञकेनेतिबोधः सम्भवति, कथं चैतद्वाक्याधीनसिद्धिकस्यैतत्संज्ञकत्वस्यास्मिन्नेव वाक्ये सिद्ध- वनिदेश इसाशयः । ननु यदि सामानाधिकरण्यात्संज्ञात्व मुद्भिच्छ. ब्दस्य तदा सामानाधिकरण्यनिर्वाहार्थ यज्यधिकार्थत्वं स्वी- कार्य, भिन्नप्रवृत्तिनिमित्तयोरेकार्थवृत्तित्वस्य तल्लक्षणत्वात् । नच सर्वात्मना तदसम्भवः उद्भित्पदस्य यौगिकत्वेन फलोद्भेदनकारि- त्वपकारकबोधजनकत्वात् यजोगत्वावांतरजातिप्रकारकबोधज- जनकत्वात् । नच फलोद्भेदनकारित्वयोगस्य ज्योतिष्टोमादिसा- धारण्यान्नोद्भित्पदस्य नियतप्रवृत्तिहेतुत्वं सम्भवतीति वाच्यम् । दृ. तिहरि(१)पदे पशुत्वस्येवोद्भित्पदे यागत्वावान्तरजातिविशेषस्य प्र. योगोपावित्वाङ्गीकारात् । योहि स्वयमशब्दवाच्योऽतिप्रसज्यमानां शब्दप्रवृत्ति निवार्य विषयविशेषे व्यवस्थापपति स एव. प्रयोगोपाधिरित्युच्यते । ननु यदुद्भिपदज्ञाप्यं फलोद्भेदन- कारित्वं तदुद्भित्पदस्य प्रवृत्तिनिमित्तं? उतान्यत् ? नायः एतद्विधि- ज्ञाप्यस्यैतस्मिन्नेव विधौ सिद्धवनिर्देशायोगात् । न द्वितीयः जनि- ध्यमाणस्यालीकत्वेन निमित्तत्वायोगात् , अत उद्भित्पदस्य याग- त्वावान्तरबैजाये रूढिरेव स्वीकार्या, योगोपन्यासस्तु गवादाविव सा- धुत्वार्थः सागसोपबहणवेदाभ्यासशीलैर्दध्याग्निकेशवादिनान्ना रूढी- नामपि तत्र योगोपन्यासं पश्यद्भिः केनापि योगेन यत्र यस्य प्र. त्तिसम्भवः तत्रैव तस्य साधुत्वमित्यालोचयद्भिः सांप्रदायिकरुद्भि- दादौ रूढेपि योगोपन्यासः कृत इति किमाश्चर्यम् । नच रूढ्या विना संज्ञात्वं सम्भवति डित्थादीनां पाचकादीनां च पुंविशेष्यकप्रतीतिहे- तुत्वे तुल्येपि डित्थादीनामेव संज्ञात्वव्यवहारात् , अत एव दर्शपूर्णमा- ससमिच्छयेनशब्दानामाकरे कालसम्बन्धदेवतासम्बन्धहेतुकलक्ष- (१) हरिपदे इति पु० पा० ।