पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यो याग इति ज्ञायते उद्भिदा यागेनेति सामानाधिक- वं वयेते ? कथं तत्संभव इति चेत् ? उद्भि पदादुद्भिसंज्ञकने सवं संज्ञाविशिष्टयागमतीत्यङ्गीकरणात् । नन्वेवमुदिादीनां शब्दस्वरू- पाभिधायित्वं स्यात् आस्ता जातिविशिष्टपतीविजनकानां गवादी- नां जातिवाचित्वं साधकन्यायेन संज्ञाविशिष्टप्रतीतिजनकानामु. द्भिदादीनां मंज्ञावाचित्वस्यौचित्यायातत्वात् अतएव गौः शुकश्व- ल इत्येवं जातिगुणक्रिया इत्र डित्यादीनां शब्दमेव निमित्तीकस प्रवृत्तिमाहुरालङ्कारिकाः। अथ गवादिशब्दाभिहितत्वादिभि- स्तादात्म्यादिना सम्बन्धेन विशेष्यलक्षणासम्भवाद्भवतु तैशिष्पा. नभिधान, संज्ञाशब्देस्तु शब्दमात्राभिधाने लक्षणयापि न संज्ञिप- तीतसम्भवः शब्दसंज्ञिनोः सम्बन्धाभावे लक्षणानुपपत्तेः । अथ संज्ञिन्यपि शक्तिरास्त्विन्युच्येत ! न, अतिगौरवादितिचत् ? भवतु तर्हि संज्ञांशे लक्षणामङ्गीकृसोद्भित्संज्ञ केनेति प्रतीतिनिर्वाहः । नच नामत्ववादिनोपि लक्षणाप्रसङ्गे तुल्ये कोऽपराधोमत्वर्थलक्षणया यदस्या भयेन गुणविधिवत्याग इति वाच्यम् । विशिष्टविधिगौर- वापादकत्वेन तस्या हेयत्वात् यथाह वरदराजः 'लक्षणया स्वोप स्थितं नाम विशेषणम् । नचैवं लक्षणाय तुल्यायर्या न मत्वर्थलक्ष- णात्याग इति वाच्यम् । वाच्यस्य भावार्थैक विधिपरत्वनियमा' दिति । यद्वा श्रोत्रजां शब्दोपस्थितिमपेक्ष्योद्भित्सकनेति प्रतीत्यु- पपत्तिः इत्यमेवोपपादयितुमुक्तं भट्टचरणः सर्वत्र ह्यगृहीतविश- पणा विशिष्टबुद्धिर्न दृष्टा न त्वभिहितविशेषणे'ति अत उद्भित्सं- शकत्वप्रकारकप्रतीतिजननेनैवोद्भिच्छब्दस्य परिच्छेदकत्वमस्त्वि- त्यतआह। उद्भिदेति । न तावदनवगमे संज्ञात्वे तादृशमतीति जननसम्भवः तदवगमोपि नाद्भिदायजेतेति वाक्यात्माकेनापि मानान्तरेण सम्भवति । अत इदमेव वाक्यं उद्भिदा यागनेत्ति नानोयजिसामानाधिकरण्येनान्वयं बोधयत् संज्ञात्वमाक्षिपतीति-