पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.... नापधेयनिरूपणम् । यागसामान्यस्य चाविधयत्वाद्यागविशेष एव विधीयते । तत्र कोऽसौ विशेष इत्यपेक्षायां उद्भिच्छब्दात उद्भिदूपो विशेष्य एवं शक्तिग्राहकत्वं यथोदाहुतसामानाधिकरण्ययोदेवदत्त- ब्राह्मणपदयोर्यथाक्रमं विशेषसामान्ययोर्वाधकोपनिपातासामान्य- विशेषगोचरशक्तिग्राहकत्वम् । नन्वेव यजिनेव यागविशेषप्रत्यायने नाम्नः परिच्छेदफलत्वं न स्यादिति शङ्का निराकर्तुमाह । तत्रे. ति । अयमर्थः न वयं नाप्नोऽज्ञातविशेषरूपज्ञापनेन परिच्छेदकत्वं ब्रूमः किंतु ज्ञात एव विशेषरूपे जिज्ञासानिवर्ननेन, यथा रूपा- कृत्यादिविशिष्टदेवदत्तस्वरूपे शब्दाज्ज्ञानेपि प्रयक्षज्ञानेच्छया भवति प्रश्नः कोसाविति, प्रत्यक्ष ज्ञानेन तनिवृत्तौ च भवति परि- च्छेदव्यवहारः तथा यजिज्ञानेपि विशेषरूपे संज्ञाजन्य ज्ञानेच्छयोदा. हृतप्रश्नः संज्ञाजन्य ज्ञानोत्पत्या तन्निवृत्तौ सम्भवति परिच्छेद- व्यवहारः । न चोद्भित्पदजन्य ज्ञानस्यानधिकविषयत्वे कथं तत्स- स्वासत्वयोः परिच्छेदसत्वासत्वाव्यवस्था, प्रत्यक्षज्ञानस्य तु शाब्दा. द्भवत्येव कचिदप्यं शेऽधिकविषयत्वमिति शङ्ख्यं, प्रत्यक्षज्ञानवेला- यामाधिक्यबुद्धिशून्यस्यापि परिच्छेदव्यवहारेण विलक्षणज्ञानेच्छा- निवृत्तरेव सदालम्बनत्व निर्णयात् दृष्टं च विभिन्न हेतूनामविल- क्षणविषयाणामपि ज्ञानानां हेतुविशेषजस्यैव कार्यविशेपे नियामकत्वं तार्किकमते पदजन्यज्ञानस्येव शाब्दज्ञाने औपनिषदमते सोयंदेव- दत्तइति वाक्यजस्याखण्डाज्ञानस्येव भेदभ्रपनि नौ, अतो धातु- जज्ञानादनधिकविषयेणापि नामजज्ञानेनैव परिच्छेद इति न दुर्घटम् । अमुनवाशयेनाइ 'भवदेवः तेनैवभूतोयागविशेषः प्रतीयते न तु विशेषणविशिष्ट' इति । अनन्यलभ्यविशेषणं विशेषणशब्दार्थः। मूले उद्भिपइत्युद्भिदभिन्न इति ननु सम्भवसधिकार्थत्वे किमिति नान्न उक्तविधपरिच्छेदार्थ- 1.