पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तथा हि 'उद्धिदा यजेत पशुकाम' इत्यत्र उद्धिच्छब्दो यागनामधेयम् । तेन च विधेयार्थपरिच्छेदः क्रियते । अनेन हि वाक्येनाप्राप्तत्वात्फलोद्देशेन यागो विधीयते। विशेष्यकातीतिजनकसुबन्तपरं सर्वपृष्ठातिरात्रादिपदानां तज्जन- कानामपि उक्तपरिच्छेदार्थवासम्भवात्, किन्तु योगेन रूळ्या या धात्वर्थपरिच्छेदतात्पर्यकसुबन्तत्वम् । ननु परिच्छेदोनाम सामा- न्यात्मना बुद्धिस्थस्य विशेषात्मना प्रत्यायनं एकहायन्या इवारुण्येन, उद्भित्पदस्य च यजिसामानाधिकरण्यात्कर्मनामत्वं व दद्भिर्यदि यागसामान्य वाचिवमुच्येत ततोनैव विशेषप्रयायक- स्वमिति कथं परिच्छेदकत्वम् ? अथ शब्दान्तरादिमानकयाग- स्वावान्तरबैजात्यताचित्वमस्योच्येत ? तदा कथं तत्र यजिसागाना- करण्यस्य मानत्वं ? नहि यजिजात्यवाची, तेनैव वैजायपत्यायने वा नैव परिच्छेदो नामफलं अन्य लभ्यत्वात् अत आह । अनेन होति । नैव पिकः कोकिल इत्यत्र कोकिलपदमामानाधिकरण्या- कोकिलपदवाच्ये पिकपदस्येव यजिसामानाधिकरण्याजिवाच्य वा सामान्य उद्भित्पदस्य शक्तिं चूपः किंतु शब्दान्तराधन्य तरसहितविधिना यजितात्पर्यविषयत्वेनाक्षिप्ते यागीयविशेषरूपे, यथाऽत्रैकब्राह्मणानयनकथनोपक्रमके वाक्ये देवदत्तं ब्राह्मणमान- येत्यत्र देवदत्तब्राह्मणपदयोः सागानाधिकरण्याद्योनाम देवदास- पदस्य ब्राह्मणवाचितां गृह्णाति नामौ ब्राह्मणसामान्यवाचित गृह्णाति किंतु ब्राह्मणत्वाश्रयीभूतविशेषवाचिताम् । नचैतावना सामानाधिकरण्यस्याकिञ्चित्करत्वं एककारकान्वयित्वरूपं .हि सामानाधिकरण्यं धातुनामज्ञाप्ययोरभेदमापादयत् तनिर्वाहाय धातुज्ञाप्ये नान्नः शक्तिं ग्राहयदसति बाधके सामान्यविशिष्ट विशे- परूपे ग्राहयेत् स्नुषापुत्रभार्येति सामानाधिकरण्यमिव स्नुषापदस्य पुत्रविशिष्टभार्यायां, विशेषणांशे वाधकोपनिपाते तु सम्भवति सस्य