पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्त्रप्रामाण्य निरूपणम् । सम्मवति तदा तत्रैव विनियोगः । येषां तु न सम्भ- वति तेषां यत्र सम्भवति ततोत्कर्षः यथा पूषानुम- न्त्रणमन्त्राणामित्युक्तम् । येषां क्वापि न सम्भवति तदु. च्चारणस्य त्वगत्या ऽदृष्टार्थत्वम् । सर्वथापि तु तेषां नानर्थक्यमिति । नामधेयानां विधयार्थपरिच्छेदकतयाऽर्थवत्त्वम् । . 'तदर्थशास्त्राच्छेषशेषिमात्रार्पणं, किश्चित्करता तु मन्त्रशक्तिनिरूप- णात्, तन्निरूपणे च किञ्चित्कार्यात्मा शेष्यपि लब्ध एवेति वि- नियोगबुद्धौ जातायां तदर्थशास्त्रमनुवादः 'एयां तु वचनादेव लब्धं किश्चित्करताभिधान मिति । व्याख्यातमेतद्वरदराजेन, शेषः शेषी किश्चित्कारश्चेति त्रयः ज्ञानं विनियोगे सामग्री, तत्र तदर्थशाने शेषशेषिमात्रार्पणं, नतु शेपसाध्यः किञ्चित्कारपदवाच्य उपकारावशेषोपि, स च मन्त्र- शक्तिनिरूपणादभिधानात्मा प्राप्तव्यः अतोलिङ्गापेक्षं तदर्थशास्त्रं, नतु लिस्य कचिदशे तदर्थशास्त्रापेक्षेति तदर्थशास्त्रस्य लिङ्ग- प्राप्तानुबादत्तमुचितं, ऐन्द्रीवचने तु न लिङ्गापेक्षा उपपूर्वस्य ति- प्ठतेरभिधानार्थत्वेन वचनादेव किञ्चित्कारलाभादिति । नच सर्वतदर्थशास्त्राणामनुवादतया वैयर्थमपि शमां कचिदर्थवादा- यर्थतायाः सम्भवात् अतो न प्रयोगचोदनानामपामाण्यमिति एवमर्थवादायधिकरणेष्वपि चोदनापामाण्यमेव साध्यते तेन न मन्त्रादीनां पृथक् प्रामाण्यचिन्तायाः फलमित्याहुः । सर्वाण्यपि मतानि मनासि निधायाह । सर्वथापीति । नामधेयानामिति । अत्र नामधेयग्रहणं न प्रातिपदिकमात्र- परं व्रीह्यादिपदानां विधेयार्थपरिच्छेदार्थत्वाभावात् , नापि कर्म-