पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- -- नकर्तव्यता प्रापयतामिति । परेवाहुः नैवमपि चोदनावन्मन्त्राणां शब्दविधया मामा- ण्यासद्धिः नहि चोदनागरिव मन्त्रगतैः पदैरुषास्थिताः पदार्था उक्तोदाहरणेष्वाकाङ्गादिसचिवास्ता तामनधिगतमां जनयन्ति, अपि तु तन्तमर्थ बोधयतां तेषामाम्नानानुपपत्तिः। नच शब्दानुपपत्त्या जातं ज्ञानं शब्दलिङ्गकाकाशानुमितिवच्छाब्दत्वेन व्यवहर्तु शक्यं, असत्यपि शब्दविधया प्रामाण्ये यथाकथंचिदैकरूप्यण प्रतिज्ञोपपादने त्वसत्यप्य नधिगनार्थगन्तृत्वे यथार्थज्ञानजनक- त्वसारूप्येणैव प्रतिज्ञोपपत्तिः किं न स्यात् । न चानाधिगतार्थगं- तृत्वमपि सर्वमन्त्रसाधारण्येन शक्यं निरूपयितुं अनुकसाम्नां के- नापि त्वदुक्तप्रकारेण तदसम्भवात् । अतएव द्वितीयमूत्रे चोद- नापदं नार्थवादमत्रायेकवाक्यतापनविधिपरं उक्तनिधया विध्यर्थ- मंत्रेषु एकरूपप्रामाण्यप्रतिज्ञाया असम्भवात् । नचैवमप्रतिज्ञातस्य मन्त्रादिप्रामाण्यस्य कथमाकरे निरूपणमितिशंक्यं, प्रथमसूत्र एव सामान्यतोधर्मप्रमाणनिरूपणप्रतिक्षायाः 'कथंलक्षण- कोधर्म' इति भाष्येण प्रदर्शनात् पदैकवाक्यतयाऽथवा- दादेः प्रामाण्यं यन्मूलत्वेन स्मृत्यादेः प्रामाण्यं तस्य प्रधान- प्रमाणत्वेन तत्प्रदर्शनार्थतया द्वितीयसूत्रे चोदनाग्रहणो. पपत्तेः, तस्मात्सर्वमन्त्राणां तत्तद्विनियोजकविधिवाक्याथै प- दार्थविधयाऽनुप्रवेशात्पदार्थानां च वाक्यार्थे प्रामाण्यं तद्- भूतानां क्रियार्थेन समाम्नायोऽर्धस्य तन्निमिनत्वादिति मूत्रे- ऽर्थस्येत्याद्यावयव्याख्यानं कुर्वता भाष्यकारेणोक्तं 'पदानि हि स्वस्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानी पदार्था गताः सन्तो वाक्यार्थ गमयन्ति' । वार्तिककारेणापि 'अवाचकत्वं वाक्यस्य तद्भुताना- मितीरितम् । हेतुः स्यात्तन्निमित्तत्वं मूलं वाऽर्थस्य कस्य- "