पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्त्रप्रामाण्यनिरूपणम् । ३४७ चित् । पदार्थ मूलको ह्येष न भ्रान्तिरितिगम्यते । साक्षा- यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैत- स्मिन् पर्यनस्यन्ति निष्फल । वाक्यार्थमित ये तेषां प्रवृत्ती नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् । प्रयो- जनतया चैषामर्थमिच्छन्ति भावनाम् । क्रियार्थोनेतितेनेह समा- म्नायप्रयोजन मिति । अस्य चेत्थमभिप्राय उक्तोन्यायरत्नाकरे 'ये हि वाक्यमेव स- भागं निर्भागं ना वाक्यार्थस्य वाचकं मन्यन्ते ये च निर्मुलमेव वा- क्यार्थज्ञानं, तेषामु भयेषामपीद सूत्रेण निराकरणं तत्र 'तद्भूतानां' इति सूत्रावयवन वाक्यस्य वाचकत्वनिराकरणं लोकसिद्धेषु पदार्थेषु वर्तमानानां पदानामेव वाक्यार्थोपायत्वान्न वाक्यं वाचकमिति अ- र्थस्य तन्निमित्तत्वादिति । तत्र च हेतुः पदार्थानामेव निमित्तत्वोप- पपत्तेनिष्पमाणकं वाक्यस्य वाचकत्वमिति । यद्वाऽर्थस्य वाक्यार्थस्य मूलं कथ्यते तन्निमित्तत्वादिति पदार्थ मूलकोहि वाक्यार्थवोधो न निर्मलत्वे भ्रान्तितया शदिलव्यः । नचैवं वाक्यार्थभूतक्रिया- प्रतीतेः पदार्थनिमित्तत्वं पदानां क्रियाथैन समाम्नायः कथमिति. शां, पदार्थेषु पर्यवसिताभिधाव्यापाराणामपि पदानां वाक्यार्थ एवं तात्पर्यपर्यवसानात् , एवं च क्रियानत्यर्थशब्दः प्रयोजनप- रोनाभिधेयपर' इति । नचैवमपि पदार्थज्ञानानां हेतुत्वमनङ्गीक- त्य पदार्थानां तदङ्गीकारे कोहेतुरिति शक्यम् । गोपदजन्यानन्त- ज्ञानव्यक्तीनां हेतुत्वपपेक्ष्य गोपदाभिहितगोत्वस्य हेतुत्वाङ्गी- कारे लाघवात् एवं शुक्लयागाकाशादिशब्दानां नित्य सिद्धैक- व्यक्तिकगुणक्रियाद्रव्यचाचित्वमते श्वेतत्वादिजातिवाचित्वमते वा तत्तत्पदार्थानां वाक्पार्थधीहेतुत्वमते लाघव बोध्यम् नचाज्ञातपदार्थाना वाक्यार्थधीहेतुत्वायोगात् ज्ञातपदार्था- ना तद्वाच्यतया लाघवाज्ज्ञानानामेव हेतुत्व- च