पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायमकाशे- तु विधरालाच्यमाने प्रत्यक्षानुमेयश्रुतिभ्यामश्वाभिधान्यां मन्त्र- प्राप्तिसम्भवे तुल्येपि यदनुमेयश्रुतिप्रतिवन्धेन त्वरमाणया प्रत्य- क्षश्रुत्याऽश्वाभिधान्यङ्गत्वबोधनं कृतं तर्दधाभिधान्यामनुमेयश्रुत्या मन्त्रमाप्ति भूदित्येवमर्थमिति निर्णयात्फलतः परिसङ्घयासिद्धिः । ननु यदि वचनं गईभाभिधान्या मन्त्रनिवृत्तिं न वोधयेत नैव तस्यास्तनिवृत्तिः सिध्येत् मन्त्रस्याश्वाभिधान्यादानाङ्गत्वेन कैम कासानिवृत्तावपि गईभाभिधान्यादानस्मारकासासत्वेन समन्त्रस्य तादोपत्तेः । न चाक्षेपलभ्येनोपद्रष्ट्रादिना स्मारके- णापि गर्दभाभिधान्यादानीयाकासोपशमसम्भवान्न मन्त्रस्य ता- दपित्तिरितिशवाम् , नियमसम्भवेऽनियमस्थान्याप्यत्वात् अपू. वीयगईभाभिधान्यादानस्मारकत्वनाक्लुप्तापूर्वसम्बन्धानामुपद्रष्ट्रादी- नां स्वीकारात् क्लुप्तापूर्वसम्बन्धमन्त्रस्वीकारे लाघवाच्च । उक्तं हि तृतीये 'आग्नेय्याऽऽग्नीध्रमुपतिष्ठत' इति वचनं स्तोत्रायत्वेन वि- नियुक्तामपि प्रकृतामेवाग्नयी विनियुङ्क्ते न त्वप्रकृतां, तस्या अपूर्वस- वन्धे द्वारसम्बन्धे च बोध्यमानेऽतिगौरवादिति । नच वचनस्या- वाभिधानीमन्त्रसम्बन्धबोधकत्वेपि न तद्व्यातिरके सम्भवत्प्राप्ति कतबोधनप्रत्युक्तवैयानुपपत्यैव गई भाभिधान्या मन्त्रनित्तिः शशा,तथासति पश्चपश्चनखा' इत्यत्रापि त्रैदोप्याभावापत्तेः शशा- दिभक्षणबोधकत्वापरित्यागेपि ह्यस्य वैयर्थ्यानुपपत्त्यैव शादिनि- वृत्तिसिद्धेः किमिति श्रुतहान्यश्रुतकल्पने स्वीकार्ये, तस्मात्केनापि मानेन सम्भवत्प्राप्तिकस्यार्थस्य निवृत्तिबोधकवचन विना वया- नुपपत्तिमात्रेण न निवृत्तिसिद्धिरिति स्वीकार्यम्, तथासत्युक्तरीत्या गर्दभाभिधान्यां सम्भवत्याप्तिकमन्त्रीनवृत्तिसिध्यै श्रुतवचनेनैव- कैङ्गिकविनियोग प्रतीक्ष्य निवृनिपरेण भवितव्यं ततश्चानिवार्य त्रै- दोष्यमिति । मैवम् , गर्दभाभिधान्यादानस्य सत्यामपि स्मारकाका- ८