पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- न्यविशिष्टव्यवच्छेदवाचिनवकारेणोपसर्जनतयोपस्थापितस्यान्यप दार्थस्य सप्तम्यर्थान्धयायोग्यत्वाच्च । अथैवकारस्यान्यस्मिन् व्यवच्छेदे च शक्तिभवतु नतु विशिष्टे, अत एवकारोत्तरलु तसप्तम्युपस्थापिताधिकरणत्वेनैवकारोपस्थितान्यान्वयाभ्युपगमाद्भ- वत्यावापेऽन्धधिकरणकन्वलाभः । यद्यप्येत्रकारसमभिव्या- हारादन्यत्र प्रातिपदिकार्थस्य सुवर्थेनैवान्त्रयोदृष्टस्तथापि तत्सम- भिव्याहारे व्युत्पत्तिवचित्र्येण प्रातिपदिकार्थस्य युगपत्सुवर्थे नैव- कारोपस्थापितान्येन चान्वयात्सम्भव सन्यत्वस्य पवमानगतगाय- ध्यादिनिरुपितत्वलाभः । यद्वा तछब्दस्य बुद्धिस्थधर्मप्रकारकवुद्धि- जनकत्ववदेवकारस्यापि बुद्धिम्थधर्मावच्छिन्नान्यत्ववोधकत्वा- त्तम्लाभः, भवतु चैवकार एवं स्ववाच्गेऽन्यत्वसमभिव्याहतगाय- व्यादिनिरूपितत्वस्य लक्षणया बोधकः एवकारस्थलीयव्युत्पत्ति- वैचित्र्याञ्च युगपच्छक्यलक्ष्योपस्थितिरपि न सम्भवति, अतः सम्भ- बत्युक्तपतीतिनिर्वाह इति चेत्, भवतु तावत्कथञ्चिदेवमेवकारोप- स्थितेऽन्यत्वे पवमानगतगायत्र्यादिनिरूपितत्वलाभः तथापि गाय. याद्यन्याधिकरणकावापकर्त्तव्यतोपस्थितिमपेक्ष्य नैवकारस्य व्य वच्छेदबोधकत्वं सम्भवति, नहि पदानां विरम्य व्यापारः सम्भवति, नच तमन्तरेणान्यात्मकैकार्थ बोधयित्वा तस्य पदान्तरालोचनल- भ्येनार्धान्तरान्वयेन सिध्यन्तं विशिष्टावापवोधं प्रतीक्ष्य व्यवच्छे- दात्मकार्थान्तरबोधकत्वमेवकारस्य सम्भवति । कथं तवकारा- व्यवच्छेदसिद्धिरिति चेत् ? शृणु, यथैव प्रव्याद्युपसर्मागमे ताडन क्रीडादिप्रतीतिदर्शनेपि प्रहरतिविहरतीत्यादौ न ताडनक्रीडादेरु- पसर्गार्थत्वं कल्प्यते, प्रययानां प्रकृत्यान्वितस्वार्थबोधकताया व्युत्पत्तिसिद्धाया बाधापत्तेः, किंतु धातोरेव प्रसिद्धार्थत्यागेन ता- डनक्रीडादौ प्रव्यादिद्योत्या शक्तिः स्वीक्रियते तथैवकारसमाभि व्याहृतस्य पदस्य स्वार्थमात्रगोचरप्रसिद्धित्यागेन स्वार्थान्यगोच-