पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्गधाविधिनिरूपणम् । तु यद्यानयनव्यक्तिरेकैव निर्देशद्यालम्बनम् ? तदा परिसर- व निर्देशद्वयालम्बनभूताऽऽनयनव्यक्तिभेदे तु नैव परिसख्या, एकत्रोभयोः समुञ्चित्य, प्राप्त्यपेक्षनिवृत्तिफलकत्वाभावात् ता. शनिवृत्तिफलकत्वस्यैव लक्ष्यतावच्छेदकत्वात् । न च तत्राति प्रसङ्गः तत्फलभूनाया निवृत्तिप्रतीतेस्तदन्यत रनिरूपितमम्बन्धा. नवगाहित्त्वादिति सुधीभिरूह्यम् । सामान्यविशेषवलावलव- धापूर्वनियमविधिबलावलस्यापि लोकवेदसाधारण्यालौकिक- पदेषु जातिवाचित्वादिविवेकवल्लौकिकविधिष्वपूर्वविधित्वादि- विवेकोपि नानुचितत्वेन शक्यः अस्ति च 'अत्र ह्ये वावपन्ती'त्य- प्राप्युक्तलक्षणं पवमानगतगायच्यादिषु आवाः कार्योनान्य- स्तोत्रीयविति विधिफलभूतमतीतेस्तादूप्यात् । ननु नास्माद्वाक्यादुक्तविधप्रतीतिः सम्भवति तथा हि न तावद- न्यस्तोत्रीयर्गधिकरणकावापनिवृत्तित्वेन निवृत्तेरेवकारवाच्यत्वा- साशप्रततिनिर्वाहः सर्वप्रयोगेषु एवकारस्य तादृशनिवत्तित्व प्रकारकप्रतीत्यजनकत्वात् । अथान्यव्यवच्छेदमात्रमेवकारवाच्य अन्यत्वस्य पवमानगतगायच्यादिनिरूपित्तत्वं अन्यत्वाश्रयस्य स्तोत्रीयात्मकत्वमावापे तदधिकरणकत्वं, सर्वमेतदन्यलभ्य- मितिचेत्? न, यतोन्यत्वस्य गायनादिनिरूपितत्वं समभिव्या- हारलभ्यं वाच्यं, न च तत्सम्भवति गायत्र्यादीनां स्वपदोपात्त. कारकोपसर्जनतयाऽन्यत्वस्य स्वपदोपात्तार्थान्तरोपसर्जनतया मिथोऽन्वयायोग्यत्वात्, अन एवान्यत्वाश्रयस्य स्तोत्री यात्म- कत्वमपि नान्यलभ्यं, यदि हि पवमानगतगायच्यादिनिरूपित- मन्यत्वं निमित्तीकृत्य कं चिदर्थं प्रतिपादयदेवकारः तदा ता- भिः सदृशीः स्तोत्रान्तरीयर्च एव प्रतिपादयेत् 'समानमितर- छपेनेन'इत्येत्रतरशब्दविषयाद्वार्तिककारोक्तन्यायात् । बाप्यधि- करणत्वस्यात्रेति सप्तम्युक्तस्यान्यर्गन्वयः समभिव्याहारलभ्यः सम्भवति प्रत्ययानां प्रकृयान्वितस्वार्थबोधकत्वनियमात् अ-