पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दभावनाकथनम् । २५ भवनानुकुलो भावकव्यापारविशेषः । सा च द्वि- विधा, शाब्दी भावना आर्थी भावना चेति। तत्र पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः शा- सामान्यं भिद्यते । अतो धात्वातिरिक्त एव व्यापार आख्यातेन भावनारूपेण बोध्यत इसाशयः। आख्यातजन्यप्रतीत्या प्रवर्त- नाया अपि उक्तरूपेण कचिद्विषयीकरणात् लक्ष्यान्तःपातोलक्ष- णान्वयचोपपादनीयः । TR Not ____ आख्यातत्वलित्वावच्छिन्नशक्त्योर्विषयभेदं .. दयितुपाह । सा चेति । शाब्यां भावनायां मतद्वयं वक्ष्यते प्रेरणा- त्मिका सेष्टसाधनता वेति । आधे शब्दनिष्ठत्वाच्छाब्दी- ति वक्ष्यते द्वितीये शब्दैकगम्यत्वाच्छाब्दीति । आर्थ्या अ. पि यत्रैकरूपत्वमते अर्थयत इत्यर्थः पुरुषः तद्धेतुत्वादार्थी । क- रणानुग्राहकफलव्यापारात्मत्वमते तु प्रथमान्तादिपदोपस्थापि- तार्थगामित्वादार्थी । तत्रेति । विधेश्चेतनविषयत्वाचेतनाचे- तनसाधारणं प्रवृत्तिपदार्थ विशेषयितुं पुरुषति । यथा चैप सा- धारणः तथाऽङ्गत्वलक्षणे वक्ष्यामः । यज्ज्ञानं प्रवृत्त्यनुकूलं स एव लिडर्थोन विच्छादिरिति ज्ञप्तये विशेषेति । आक्षेपनां पुरुषोप- स्थितिमिव प्रत्यक्षजां लिङादिशब्दोपस्थितिमादाय तदुभयानुरक्त- प्रवर्त्तनाप्रतीत्युपपत्तेर्न शब्दस्य शब्दवाच्यत्वापत्तिरिति ज्ञापनाय श्रवण इति । विशिष्टाभिधानाय हि विशेषणस्य नियता पूर्वो- पस्थितिरपेक्ष्यते न तु विशेषणाभिधानं यथाः- "विशिष्टग्रहणं नेष्टमगृहीतविशेषणम् । अभिधानाभिधाने तु न केनचिदिहाश्रिते"(१) (तं. वा. ३ ENTRaan HIRKAR अ. ४ पा. १३ सू.) इति । (१) अगृहीते विशेषणे तदनुरक्ता विशेष्ये बुद्धिर्नोपजायत इति