पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्ख्या विविनिरूपणम् । धिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणा- त्मको नियम एव वाक्यार्थः । पक्षेप्राप्ततादशायाम- घातविधानमिति यावत् । न त्वपूर्वविधाविवात्यन्ता- प्राप्तयागविधानमिति । उभयस्य युगपत् प्राप्ती इतरव्यावृत्तिपरोविधिः परिसङ्घयाविधिः । यथा ‘पञ्च पश्चनखा भक्ष्या इति । इदहि वाक्यं न भक्षणविधिपरम् , तस्य रागतः प्राप्त- 'अग्निहोत्रं जुहोति' इत्यादावतिपमङ्गः तदीयतात्पर्यस्य तत्तत्मा- पणविषयस्य तत्तदमाप्तिमात्राधीननिर्णयत्वेन द्विविधप्राप्त्यनपेक्ष- त्वात् । परिमङ्ख्याभूतविधिनिषधेषु च ग्राह्यत्वाभिमतशशादिभक्ष- णादेविय॑त्वाभिमतश्चादिभक्षणादेश्च प्राप्त्यभावे श्रुतार्थतात्प- वाधेनाश्रुतानेत्तितात्पर्यायोगादस्त्येव द्विविधप्राप्तिनिर्णयता- त्पर्यकत्वं, अतात्पर्य गोचरीभूतोपि चार्थोऽश्वाभिधान्युदाहरणे ता- त्पर्यगोचरीभूननिवृत्तिप्रतिपच्युपायत्वेन ज्ञाप्यते, न ज्ञाप्यते च प- ञ्चनखोदाहरण इति अन्यदेतत्, अतः सम्भवत्येव परि- सख्यालक्षणमिति चेन्न । 'अत्र वावपन्ति' इत्यत्र द्विविधलक्षणस्याव्याप्तेः तज्ज्ञाप्यस्य स्तोमान्तरीयगंधिकरणकावापनिवृत्यात्मनोऽर्धस्य प्राप्त्यभावात् तद्गोचरतात्पर्यनिर्णयस्य द्विविधप्राप्त्यनधीनत्वात् । यद्यपि हि पव- मानगतगायच्यादिष्वाचापो न प्राप्तः स्यात तथाप्येवकारसामर्थ्या- ।वदेव निवृत्तिपरत्वमस्येति न कथंचित्परिसयालक्षणोपपत्तिरि त्यत आह । उभयस्येति । ययोर्याशसम्बन्धनिषेध्यत्वेनाभि- प्रेतस्तदन्यतरत्तदन्यच्चोभयशब्दार्थः । तादृशसम्बन्धनिरूपकत्वेन प्रतीतिश्थामाप्तिः विधिफलभूतया व्यावृत्तिपदवाच्यया निवृत्तिप्रती-