पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्गचाविधिनिरूपणम् । केषां चित्प्राप्तिफलकत्वात्परेषां नियमफलकत्त्वान्नातिव्याप्तिः ग्राह्य- व्यावययोश्चैकजातीयेन सम्बन्धेन प्राप्तत्वं विवक्षणीयं, तथासति 'दीक्षितो न जुहोति' इत्यत्र सत्यपि निवृत्तिफलवे सत्यामप्यग्निहो. प्रहोमस्य क्रत्वहोमैः सह कसामप्रयोगान्तविप्राप्ती नातिव्याप्ति- रिति तद्वारणार्थत्वाम्म शेषवेयर्थ्यम् । यद्यप्येवमपि 'न हिंस्यात्सर्वा- भूतानि' इत्यादौ नातिव्याप्तिनिवारणं पुरुषार्थहिंसादेः पुरुषार्थ- भोजनादिभिः सह समुचित्य प्राप्तौ सत्यां हिंसादिनित्यर्थत्वात्, तथापि निवृत्तावत्यन्ताऽप्राप्तेतिविशेषणात्तन्नित्तिः घटते हि राग- तो हिंसाया इव हिंसानिवृत्तेरपि पक्षे प्राप्तिः 'न तौ पशौ करोति नातिरात्रे षोडशिनं गृह्णाति इत्यादेस्तु निवारणासम्भवाल्लक्ष्यान्तर्भाव एव स्वीक्रियते इति चेन्न । एवमपि पुरुषार्थसन्ध्यावन्दनादिभिः सहानिहोत्रस्य समुच्चित्त्य प्राप्तिसम्भवेन 'दीक्षितो न जुहोती'त्यत्रा- तिव्याप्तितादवस्थपात् सम्भवत्कादाचित्कप्राप्तिको स्वादिभक्षण निवृत्तिं कुर्वति विधाकव्याप्तश्च । अथ निवृत्तिफलकत्वमेव लक्षणं ? तदुपलक्षणार्थं 'तत्र चा. न्यत्र च'इतिवात्तिकम् , निषेधास्तु सर्वे परिसङ्ख्या एवेति न तेष्वतिव्याप्तिरिति चेत् ? न, अग्निहोत्राद्यकरणनिवृत्तिफल- के 'अग्निहोत्रं जुहोति'इत्यादिविधावतिव्याप्तेः । नच तत्र चान्य- प्र पाप्त इति श्रुतांशेनापि तत्परिहारः ग्रामगमनाद्यकरणेन सहा- ग्निहोत्राधकरणस्य समुच्चित्य प्राप्तिसम्भवात् । अथाभावकस्व- भावनिवृत्तिफलत्वं विवक्ष्यते ! तथासति निषेधमुखपत्तपरिसङ्घया- विधावव्याप्तिः तस्य भावरूपनित्तिफलकत्वादिति परिसङ्ख्या- } लक्षणमयुक्तमिति । ननु तत्र चान्यत्रेति शब्दाभ्यां ग्राह्यव्यावर्थे अभिधी. येते इति तावदुक्तं प्राक्, ततश्च ग्राह्ये व्यावत्यै च प्राप्ते सति प्रवृत्त इति लक्षणं यस्मिन्विधौ नेयं तद्विधिनिरूपितमेव ग्राह्यत्वं