पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- भावात् शशादिश्वादिभक्षणयोश्च समुच्चिन्य प्राप्तिसम्भवात्, तथा- पि 'पदहा भवंति चत्वारो भवंति शनोक्पं भवति सर्ववित्' इ. तिविधिष्वतिव्याप्तिः केषु चिदहःसु पडहविष्यन्तः, परेषु छंदोमवि- ध्यन्त इत्येवंविध्यन्तद्वये समुचियप्राप्तिच्छन्दोमविध्यन्तविषयेपि पाडहिकविध्यन्तप्रापणमाद्यवाक्यद्वयेन क्रियते शतसङ्घघाहर्गणप- तिदशकमायोत्तमाहोरग्निष्टोमसंस्थामध्यवर्तिवष्टसु तूक्थ्यसंस्थेत्येवं संस्थाद्वये समुचित्य प्राप्तेऽग्निष्टोमविषयेऽप्युक्थ्यसंस्थाप्रापणं मध्य- मेन क्रियते, अग्निष्टुदायेकाहे बहिष्पवपाने त्रिस्तोमस्तो. त्रान्तरेषु तु स्तोमान्तराणीत्येवमनेकस्तोमेषु समुच्चित्य प्राप्तेषु स्तोमान्तरविपयेपि त्रिवृत्स्तोमप्रापणमन्येन क्रियते, अतोऽप्राप्तपाप- केष्वपि लक्षणगमनादतिव्याप्तिः । नच विकल्पवत्समुच्चयस्याप्यवा- न्तर कार्यक्य एव वक्तुमुचितत्त्वात्प्रकृतोदाहरणेषु चाहर्भेदेन स्तोत्रभे देनावान्तरकार्यभेदात् कथं समुचित्य प्राप्तिर्व्यवहर्तुं शक्येत्यपि श- क्यम् । अवान्तरकार्यभेदेऽपि परमकायॆक्य मात्रेण समुच्चयोपपत्तेरव- श्यवक्तव्यत्वात् । अन्यथाऽऽज्यभागमयाजादीनामवान्तरकार्यभेदेन 'आज्यभागौ यजति इति गृहमेधीयास्थपरिसङ्घयाविधावव्याप्तेः एव- मनेक शेषाणां समुश्चित्य प्राप्त्यातिव्याप्तिर्दशिना, अस्ति चानेकशेषि- णामपि ताशप्राप्त्याऽतिव्याप्तिः तथा 'स ब्रह्मणे देयः सर्व ब्रह्मणे परिहरति' इति श्यावाश्वसोमचपसहविशेषेषु ब्रह्मतदितरविजा समुश्चित्प प्राप्ती सत्यामृत्विगन्तरविपयस्यापि ब्रह्मसम्बन्धमाप- णार्थत्वादेषाम् । एवममाप्तभापकेष्वतिव्याप्तिर्दर्शिता, अस्ति पक्षपा- तविषयेष्वपि सा, यथा 'पत्नीसंयाजान्तान्यहानि संतिष्ठन्त' इति 'च- तुर्जुव्हां गृह्णाति प्रयाजेभ्यस्तत्' इति च, आधविध्यभावे पत्नीसं- याजान्तानां तदुपरितनानां च कदाचित्समुच्चित्य प्राप्तिसत्त्वात्, द्वि. तीयविध्यभावे प्रयाजानामितरेषां च जौहवाज्ये कदाचित्सत्वान् । अथ नित्तिफलकत्वमुक्तलक्षणेऽधिकं योज्यते अत उक्तविधिषु