पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ भाहालङ्कार सहितमीमांसान्यायप्रकाशे- वलम्बनेनापि प्रयोजनान्तरं वक्तुं शक्यम् , अतोत्रानुमीयमाना अपि विधिनिषेधा न प्रत्यक्षेभ्योभिना अनुमोयन्त इत्यङ्गीकृत्यैवा. र्थवत्त्वमुपादनीयमिति । अथ परिसलवालक्षणे तवान्यत्रेति पदाभ्यां शेपिणौ वि. बक्षितौ ? उन शेषों ? उतशेषशेषिभावनिरूपको कीचित् ? उत निमित्तभूती ? उताश्रय भूतौ ? अथ विध्युपात्तानुपातौ ? अथ ग्राह्य- व्यावर्तनीयौ ? नायः 'शस्यन्ता प्रायणीया सन्तिष्ठत' इति शेषप. रिसङ्घयायामपाः अनेक स्पिन शेपिण्यकशेषमाप्तिमपेक्ष्य प्रवृत्तो विधिः परिसङ्ख्थेति हि लक्षणं तादशी प्राप्तिमपेक्ष्य प्रत्ते विधा- वेव सम्भवति । नत्रोक्तविधिस्तादृशः एकस्मिन् प्रायणीयारूपशेपि. प्पनेक शेषप्राप्तिमपेक्ष्यैव प्रवृत्तत्वात् । न द्वितीयः तयैव दिशा सिद्ध- लक्षणस्य 'इत्यवाभिधानीमादत्ते' 'दण्डी प्रैषानन्वाह'इति शेष्यन्तर- परिसङ्घयायामव्यासः । न तृतीयः तथा सति हि शेपशेषिभावस. म्बन्धनानेकस्मिन्नेकप्राप्तिमपेक्ष्य प्रवृत्तत्वं लक्षणमुक्तं स्यात् तत्र च 'सायं जुहोति'इति 'प्रातर्जुहोति इति निमित्तपरिसङ्घयायामव्याप्तिः एकस्मिन्नग्निहोत्रेऽनेकजीवनानां यावजीववाक्यानिमित्तत्वेन प्रा. प्तिमपेक्ष्य ह्ययं विधिः सायंप्रातःकालानवच्छिन्नजीवनानां नि- मित्ततां परिसञ्चष्टे न शेषशेपिभावसम्बन्धेन तथा, 'चाग्वा एपा यदैन्द्रवायवाग्राहा गृह्यन्त' इत्याश्रयान्तरपरिसङ्घयायामव्याप्तिः अयं विधिर्हि शुक्राग्रतादिकाम्यगुणं प्रति धाराग्रहाणामाश्रयत्वेन प्राप्तिमपेक्ष्याधाराग्रहनिवृत्तिं करोति, न शेषशेषिभावन । न चतुर्थप- ञ्चमौ शेषान्तरशेष्यन्तरपरिसङ्घघास्वव्याप्त्यापनः । स्यात्तर्हि षष्ठ- स्तथासति सर्वोक्तोदाहरणानां सङ्ग्रहसम्भवादिति चेत्, सत्यं, तथा- पि 'यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृहीयाद' इति परिसङ्ख्यायामव्याप्तिः अनेन हि विधिना यासु रथन्तरसाम- कासु अताहशीषु च विकृतिष्वैन्द्रवायवाग्रतायाः प्राप्तिमपेक्ष्य रथ.