पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्घयाविधिनिरूपणम् । दयशिरस्कत्वं वक्तुमुचितं, ततश्च द्वयोरप्याज्यभागयोः संस्कार- कर्मत्वं स्यादिति सिद्धान्तहानिः । एवमन्यत्राप्यूह्यम् । अत ईदृश- सिद्धान्तवर्णनं कुर्वतामाचार्याणाप एवाभिमायो लक्ष्यते यन्म- बाम्नातान्यथानुपपत्त्या पन्त्रशेपिविषयत्वेन कल्प्यमानश्रुतिन नि- त्यानुमेया, किन्तु कचिदाम्नातैव, तथैव वेदप्रस्थानदर्शना. दिति । उचितं च वेदार्थनिर्णयाय प्रवृत्तर्वेदप्रस्थानमनुस्मृत्यैव वे. दार्थनिरूपणं कर्तुम् । अतएव स्मृतिपादे वार्तिककारः सर्वाचारप्रामाण्य- निर्वाहार्थमाचाराः प्रमाणमित्येकच श्रुतिः कल्प्येतिपक्षे पपादि- तेपि न्यायसुधायामुक्तं कतिपयाचारमूलश्रुतीनामुपलम्भात्प्रत्येका- चारमूलानेकशुतियल्पनमेवाभिप्रेतमिति । तथा विध्यन्ताधिकरणे सौर्यादिषु लौकिकस्थालीपाकादिविध्यन्तप्राप्तिमाशयोक्तं सबपि स्मातकर्मणामपि प्रत्यक्षवेदविहितत्वेन चोदकत्वे त्रय्या वैतानि. ककर्मनिरूपणोद्देशेन प्रवृत्तेस्त्रयीप्रवृत्युद्देश्यनिरूपणत्वेन मुसदृशत्वा- दर्शादिविध्यन्तस्यैवातिदेश इति । अतः सिद्धर्मतन्मन्त्राम्नाना- धनुपपत्त्या हन्तिविध्यनुमानेपि न श्रुतविधेईन्तिनियमार्थत्व- व्याघातः कचिदानानं विषयीकुर्वताऽनुमानेनास्यैव विषयीकरण- सम्भवादिति । एतेनाकरणनिमित्तप्रायश्चित्तविध्योर्यथाक्रमं विधिनिषेधानुमा- पकत्व सम्भवांप सन्ध्यावन्दनादिविधिब्रह्महयादिनिषेधानां वैय- यनिरासो बोध्यः । यस्मिन्नेव हितासीयेऽधिकरणे ग्रहणावेक्षणस- म्यग्जरणमन्त्रबलाद्हणादिकर्तव्यतानुमानमुक्तं तत्रैवमनेन सम्यक जरणाभावे प्रायश्चिताम्नानबलादपि सम्यग्जरणकर्तव्यतानुमान मुक्तं, तत्र यदि लिलादिभिर्मन्त्रादिश्रुतय इव प्रायश्चित्तविधिभिर्नि- त्यानुमेया विधिनिषेधा अनुमीयेरन तदा तैरेव प्रतिपन्नार्थाः श्रुति- विधिनिषेधाः समस्ता व्यर्था एत्र भवेयुः । न च तेषां कुशकाशा-