पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- प्राप्तिकतमपि युक्तं अनेकादृष्टकल्पनागौरवात् प्राप्तस्याप्य भ्युद- यशिरस्कविधिसम्भवे च विहितस्य विधानायोगेन फर्मान्तर- कल्पनाया: काप्यनुदयापत्तेः । ईदृशवेदप्रस्थानमहिम्नैन चाकरे तत्र तत्सम्भवत्प्रयो- जनान्तराणामपि विधीनां मन्त्राद्याम्नानान्यथानुपपत्ति- लभ्यविधि कार्यविधित्वमङ्गीकृत्य सिद्धान्तवर्णनं दृश्यते 'चतुर चतुरोमुष्टीनिर्बपतिइत्यत्र तावत् 'अग्नये जुष्ट निर्वपामि'इति मन्त्रेण सम्भवत्प्राप्तिकस्यापि निर्वापस्य विधिमङ्गीकृत्य चतुर्मुष्टिनिर्वापस्य यदर्थत्वात्तैनैवानुसमय इति सिद्धान्तितं पञ्चमे । चतुःसङ्खयानुष्टिपरिमाणयोश्च निर्वापाङ्गत्वसाम्यात्सप्तदश- शरावे चरौ प्रथमोपस्थितचतुःसङ्घय यानुग्रहः कार्य इत्युक्तं दशमे । शक्यते चात्र वक्तुं मुष्टयनुवादेन चतुःसङ्ख्या विधीयत इति । नहि मन्त्रेण सम्भवत्याप्तिकस्य निर्वापस्य पापणे समुद्भूता वैयर्यशङ्काऽभ्युदयशिरस्कत्वकल्पनापर्यन्तं व्यापियते न तु मुष्टयनुवादन चतुःसङ्घषाविधिवाक्यमयोजनत्वेन स्वीकरोतीति सङ्गच्छते इति मन्त्रानु मितानित्यानुमेय श्रुत्या निर्वापप्राप्त्यभ्युपगमे सिद्धान्तद्वयमप्यनुपपन्नं स्यात् । न चाप्राप्तमुष्ट्य नुवादासम्भव इत्यपि शङ्कास्पदं, पक्षप्राप्तानुवादेनापि गुणविधिसम्भवात् सामान्यशा- स्त्रप्रापितदाक्षिण हस्तगतपरस्पर सहितपञ्चा आङ्गुलिकर्तृकव्यापारप्रकाश- केन ‘यच्छन्तां पञ्च'इति मन्त्रेण निर्वापागतयाऽवधारितेन मुष्टेर्नि- त्यमाप्तिसम्भवाच्च । तथा क्रमागताङ्गभावाभिः 'त्रिनी पूर्णमास्या- मितित्रचोभ्यां व्यवस्थापिताभिरनुवाक्याभिः सम्भवत्प्राप्तिकयोरपि देवतयोः 'अग्नीषोमाभ्यामाज्यभागी यजति इतिवाक्ये विधिमङ्गीकृ- स्पदशमे सिद्धान्तितं प्रथमाज्यभागोन प्रधानदेवतासंस्कारकारको- द्वन्द्वोपात्तमारूप्यवाधप्रसङ्गात् । शक्य चात्र वक्तुं इतरेतरयुक्त- योर्देवतात्वं विधीयते इति । नहि तादृशेपि प्रपोजने सम्भवत्यभ्यु-