पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । घातस्य न वैतुष्यार्थत्वं बोध्यते, अन्वयव्यतिरेकसिद्ध- स्वात् । किन्तु नियमः । स चाप्राप्तांशपूरणम् , बैतुष्य- स्य हि नानोपायसाध्यत्वात यस्यां दशायामवघातं प- रिहृत्योपायान्तरं ग्रहीतुमारभते तस्यां दशायामवघात- स्याऽप्राप्तत्वेन तद्विधानात्मकमप्राप्तांशपूरणमेवानन वि- कल्पनात्यानमिति हनिविधेरमाप्तनियमविधित्वमेव स्यात्, नहि विधितः पक्षप्राप्तस्यैत्र द्वारत्वं नापेक्षन इत्यत्र नियामकमस्ति, अ. भ्युदयेष्टिगतदधिषयसोः प्रणीताधर्मपापकन्यायेन कुतोपि प्रमाणा- दवगतापूर्वमाधनभावस्य द्वारस्वाचियात् । अय मन्त्रस्प निसव- दानानान्यथानुपपत्या यवसाधारण्येन हन्तिप्रापकश्रुतिकल्पना- मभ्युपेत्य हन्सिविधौ शाब्दपरिसङ्खयैवोच्पेत ? तत्र दोपत्रयापत्तिः ततोवरमभ्युदय शिरस्कनियमाङ्गीकरणमिति प्रकारान्तरेणाक्षेपपरि- हारद्योतनानार्थ एवकारः भिन्नक्रमश्च अनेन यति । अयमाशयः यद्यपि मन्त्रस्यालखलमुसल योऽङ्गित्वानुषपत्या हन्तिनियमविधि- रनुमीयते तथापि श्रुतहन्तिविधिनैव हन्तिनियमः क्रियते इति श- क्यत एव वक्तुं, अनुमितविधिः श्रुताद्भिन्न इत्यत्र मानाभावात् योमन्त्रबलादनुमितः स एवायमिति प्रत्यभिज्ञासम्भवाच । कोहि प्रेक्षावान्धूमेन पर्वते वान्हमनुमाय ततः पर्वते स्वदृष्टधूमजननसमर्थ- वन्हि प्रत्यक्षेणानुभवन्नेवाऽनुमितोयःस एवायमिति न प्रत्यभिजा- नीयात । नन्वेवं मन्त्राधिकरणे 'तदर्थशास्त्रादिति पूर्वपक्षसूत्रा- वयन मन्त्रलिङ्गप्राप्यविनियोगार्थानां शास्त्राणां सिद्धान्तिनं प्रति यदानर्थक्यापादनं कृतं यच्च सिद्धान्तिना तेषां परिसङ्ख्याद्यर्थतया- ऽर्थवत्वमुक्तं तदुभयमप्यनुपपन्न मन्त्रलिङ्गानुमितैः सह श्रुतानां भे- दाभावेनाऽप्राप्ततत्तद्विनियोगपरत्वस्यैव सम्भवादिति चेन्न । लिङ्गा