पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शङ्कानिमित्त एवेति सम्भवत्येव तेषु लक्षणानुगमः अतएव खादिरो- मोभवति'इत्यादिवै कृतविधिविधेयस्य खादिरतादेनितिनियमापूर्व मानभावस्यापि यादृश एव तत्सम्बन्धः प्रागज्ञातस्तादृशाक्षपण लक्षणं तत्रोपपादनीयमिति सूचनार्थ मूल ज्ञानार्थोविधि शब्दः । ननु यथाऽन्वयव्यतिर कीसद्धत्याद्वतुष्यार्थत्ववोधो न हन्तिविधेः फलं तथा हन्दिनियमापि तत्फलं, हन्निाकाशनसमर्थस्य 'अवरक्षादिवः सपतं- वध्यामम् इति मन्त्रस्य लिङ्गप्रकरणावगतक्रत्वर्थत्वानुपपत्तिकल्पित- विधिनैव तत्प्राप्तिसम्भवात् । उक्तं हि तृतीयेऽध्याये ग्रहणावेक्षण- सम्यग्जरणप्रकाशकमन्त्राणां भक्षानुवाकसमाख्यासह कृतलिङ्गाव. गतस्य भक्षणापयोगिग्रहणादिप्रकाशनार्थत्वस्य निर्वाहाय ग्रहणा- दिनियमकल्पना । यद्वा 'वारणो यज्ञावचरोवैकंकतो यज्ञावचर' इति शास्त्रेण दर्शादियागसाधनत्वेनावगतोलूख लमुसलयोरुत्पत्ति- शिष्टद्रव्यान्तरावरुदेष्वाग्नेयादिषु साक्षादसम्भवत्साधनत्वयोः केन द्वारेण तनिर्वाह इत्याकाङ्क्षायां पुरोडाशप्रकृतितया विहितवी- हीणां वैतुष्योपायाकासामालोचयतो हन्तिमात्रसामर्थ्य चानयोरा- लोचयतो भवत्येवं बुद्धिः उलूख लमुसलाभ्यां हन्तिद्वारेण क्रता- चुपकुर्यादिति । नच इन्तरनियत्वं तवारेण ताभ्या निसवदुपकर्तु शक्यते इति तद्वलेनैव भवति हन्तिनियमसिद्धिरिति न हन्तिविधे- नियमफलकत्त्वसम्भः । किं तर्हि तत्प्रयोजनमिति चेत् ! रशना- मन्त्रविधिना गईभरशनाया इवामुनापि यवपरिस-ख्यैव भवतु । नच प्राप्तस्यापि नियमस्याभ्युदयशिर स्कं पुनर्विधानमेवोचितं अ- नारभ्याधीतसाप्तदश्यविधिवत् न तु परिस-ख्याफलकत्वमिति श- ङ्कास्पदम् । रशनामन्त्रविधेरपि तथैवाभ्युदयाशरस्कपुनाविध्यर्थत्वा. पत्तेः । नचैवमपि हन्तिस्वरूपस्य तन्नियमस्य वा यवेभ्यः परि- सङ्ख्यानं क्रियत इत्यत्र किं नियामकमित्यपि शङ्कास्पदं, यकृतां प्राप्तिमालोच्य विधिः परिसङ्ख्या फलत्वं प्रतिपद्यते तस्य स्वरूप-