पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. . भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तबाह । पक्ष इति । पक्षे -कचिदुद्देश्य सम्पादनसमये यादृग्रूपं विधिपर्यवमानं ताग्रूपं प्रशब्दार्थः । आप्तिःकर्तव्यताप्रतीतिः । अनाप्तिरकर्त- व्यनापतीतिः विशिष्य मानान्तरानधिगतसाधनतारूपं विदधाया. क्षिपनी निविधिः स्वपर्यवसानगोचरीभूतरूपविशिष्टविपयस्य क- चिद्देश्यसमये कर्तव्यत्वाङ्गीकारेण कचिद्देश्यसमये कर्तव्यत्व- शङ्खायामज्ञातसाधन नाक्षेपकोनियमविधिरिति वाक्यार्थः । उक्त- विधपाक्षिकाकर्त्तव्यत्वशङ्कायां यत्कर्तृक आक्षेप आपतति स नि- यमविधिरितितु निष्कर्षः, हन्तिविधिना हि हन्तरपूर्वीयवितुपी- भावार्थत्वेन कर्तव्यत्वे बोधिते जायते एव प्रेक्षावतामीशी शङ्का, हन्ति विनापि वितुषीभावसम्भवे क्वचित्प्रयोग हन्तेरकरणं किं न स्यादिति तद्वशेन नियमादृष्टहेतुतामेष आक्षिपतीति ह. न्तिविधेनियमविधित्वमुपपन्नम् । यद्यपि स्वर्गकामोयजेतेत्यादिविधि- नाऽपूर्वाक्षेपः क्रियते यद्यपि तद्विषये शक्यत्वे सन्देहापाक्षि- काकर्तव्यत्वशङ्कापि सम्भवति तथापि न तस्यां स आपतति इति नचानिधसङ्गः। यद्यपि 'इषत्वति छिनत्ती इत्यादौ विधौ ट्रपि विधेयमन्त्रादेः स्वरूपेण समवेतार्थप्रकाशनादिदृष्टकार्यासमर्थत्वेन तादाप्रतीतेनं पाक्षिकाकर्तव्यत्वशङ्कास्पदत्वं तथापि यादृपे छिनमीत्यध्याहारादिविशिष्टे विधेये विधेः पर्यवसानं तादृग्रूपस्य तस्य तादर्यप्रतीतौ भवत्येव तादृशशङ्कास्पदत्वमिति तत्र ल. क्षणाप्रसङ्गशङ्कां वारयितुमुक्तार्थपशब्दग्रहणम् । नन्वेवमपि नियमादृष्टमनाक्षिपत्सु केषु चिनियमाविधिषु त. दाक्षेपघटितस्योक्तलक्षणस्याव्याप्तिः स्यादेव, तथाहि 'औदुम्ब- रोपोभवति इति वैकृतेन विधिना नैव स्वादिरताजन्यत्वेन क्लृप्तनियमादृष्टं प्रति हेतुत्वाक्षेपादुपप से, नियमापूर्वमाक्षिप्यते 'रवादिरोस्पोभवति' इति वैकृतविधिना तु न तत्तत्साधनस्वमप्या- .