पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । निषिति हन्तिविधौ तदापादनमुखेन व्रीहिविधिना यवेषु हन्ति- नियमापादनात्तरिमश्च यवानामनुपातत्वादुपात्तनियम्यगतपाक्षिक- त्वस्य नियमविधिलक्षणाघटकत्वेऽनुपात्तनियमफलके वीहिवि. धावव्याप्तिरिति सिद्धम् । नचैवमनुपात्तनियम्यस्यैव पाक्षिकत्वं लक्षणघटकं स्यादिति शङ्क, हन्तिविधावव्याप्तः । नन्वस्तु तावदुपाचविधेयगतपाक्षिकत्वविवक्षा । नच प्रथमवि- धावव्याप्तिः उपानविधेयप्रथमस्यैव नियम्यत्वसम्भवात् द्रवीभूत- स्थ पिष्टस्य स्वयमेव प्रमरणसम्भवेन तदनुकूलव्यापारात्मनः अध्वर्युकर्तृपयनस्य नित्यप्राप्त्यभावात् । उपपादितं चैतत्फल- सार्यखण्डने । नापि व्रीहिविधावव्याप्तिः तस्याप्युपात्तत्रीहि- नियमपरत्वात् । तथा हि-आस्तां व्रीहिविध्यभावे संस्कार- वाक्याना मन्त्रवर्णस्य वा व्रीहिमापणसामर्थ्य, आस्तां च तद- भावे प्रोक्षणहत्यादेर्यवसाधारण्याभावः, तथापि प्रत्यक्षश्रुतिवि. नियुक्तयवावरुद्ध कर्मणि कथमिव संस्कारवाक्येभ्योमन्त्रवर्णाद्वा व्रीहिप्राप्तिः कल्पयितुं शक्यते । न यवानामपि साक्षाधा- गाङ्गत्वानुपपत्यालोचनेन पुरोडाशद्वारकयागाङ्गत्वं कल्प्यमेवेति कथं तैः संस्कारवाक्यादिहे तुकबीहिप्राप्तिकल्पनापतिबन्ध इति- शां, यत ऐन्द्री विनियोजकश्रुतिलिङ्गयोलिङ्गश्रुतिकल्पकत्व लिनेने- व श्रुत्या कल्प्यविनियोगासिद्ध्य कस्यापि कल्पनाया अनपेक्षणाद्यथा श्रुतेः प्राबल्यं तथा संस्कारविधिमन्त्रवर्णाभ्यामिव यवश्रुत्यादिविनि- योगसिद्ध्य न कापि कल्पनाऽपेक्ष्यते इति स्वीकार्य मेव परश्रुतेः प्रा. बल्यं, विनियोगोत्तरं तु समापतन्ती कल्पना न विनियोजकस्य दौर्बल्यमावति ऐन्येति श्रुतेर्गौणसामर्थकल्पकत्वेन दौर्बल्या- पत्तेः, अतः प्रबल यवशास्त्रप्रतिवद्धाभ्यां संस्कारविधिमन्त्राभ्यांबी- हिनियमाप्राप्तः त्रीदिशात्रं स्वविषयानयमफलकमेवं सम्भवतीति कथं हन्त्यादिनियमफलत्वेन वक्तुमुचितम् । किश्व केनापि हेतुना