पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भिव्याहारेण प्रस्तावाख्यरवन्तरभक्तिद्वारैव निमीलनादीनां स्तो- आपूर्वार्धत्वपतीतेन वृहति प्रसक्तिः, एवं बृहद्धर्माणां रथन्तरपि । ननु स्वन्तरशब्दस्यापूर्वसाधनलक्षणया सामद्वयसाधारण्ये प्रस्तावाप्युभयनिरूपित एव द्वारं स्यात् । मैवम् । प्रथमबोधवेलायां रथन्तरीयभक्तिविशेषस्य द्वारत्वे निर्णीते पश्चादानर्थक्यपरिहाराय सत्यपि रथन्तरशब्दस्य लाक्षणिकत्वे वाधकाभावेन पूर्वावगनद्वार विशेषबाधायोगात नैमित्तिकानुरोधेन निमित्तस्येव द्वारविशेषानुरो धेन द्वारिशेषिणापि सोचसम्भवात् , अन्यथा नित्यकाम्यविधिभेदे- न नित्यकाम्यापूर्वयोर्भेदावश्यम्भावनान्वारम्भणीयाविधौ दर्शपूर्ण मासपदलक्षितद्विविधापूर्वसाधननिरूपितारम्भाङ्गत्वेन विहितायास्त- स्या नित्यापूर्वसाधनारम्भचिकीर्षयाऽनुष्ठितायाः काम्यापूर्वसाधन- तदारम्भाचिकीपायामावृत्तिः स्यात् । नच पूर्णमासारम्भवेलायां दर्शा रम्भस्येव नित्यापूर्वसाधनारम्भवेलायां काम्यापूर्वसाधनारम्भस्य चिकीपीनियमोनास्ति, येनोभयोद्देशेन तन्त्रेणान्बारम्भणीयानुष्ठानं स्यात् , अतस्तत्र दर्शपूर्णमासारम्भत्वेन यद्यारम्भस्य द्वारतोच्यते ?. तदैव काम्यारम्भाय पुनरनावृत्तिः सिध्यतीति तत्सित्यै दर्शपूर्ण- मासारम्भत्वेनारम्भस्य द्वारतामिच्छद्भिरवश्यमपूर्वसाधनलक्षणातः पूर्वोपस्थितिरेव शरणीकरणीया, तथा च तेनैव न्यायेन रथन्तरी. यप्रस्तावस्य द्वारत्वान्न बृहति रथन्तरधर्माणां प्रसक्तिः । यद्वा यथैव विप्रथमामित्यादौ व्यवस्थितनिर्देशानर्थक्यभयात् प्रधानापूर्वसाध. नलक्षणां परित्यज्य नियमापूर्वलक्षणाऽङ्गीक्रियते तथेहापि 'रथन्तरे प्रस्तुयमाने बृहति प्रस्तूयमान' इति व्यवस्थितनिर्देशवलाद्विभिन्न- नियमापूर्वलक्षणया धर्मव्यवस्थोपपादनीया । यद्यपि वैकल्पिक व्रीहियवयोर्नियमापूर्वमेकमेवेत्याकरे विकल्पनिरूपणस्य प्रसङ्ग- चिन्तासङ्गतिसिद्ध्यै स्थापितं, तथापि प्रकृते व्यवस्थितधर्मविध्य- न्यथानुपपया भिन्नमेव तत्कल्प्यते । तस्मादपूर्वसाधनलक्षणा "