पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. नियमविधिनिरूपणम् । पूराडाशप्रकृतित्वेनावगवानेव साक्षादपेक्षते सत्सिद्ध्यै परं जाति- व्यक्तीश्चापेक्षेत । नच साक्षात्तदपेक्षितसमर्पणे सम्भवत्यन्यथा- भाव उचितः, अतोत्री हित्वावच्छ दयोग्यावयवनियमपरं बाहि- शास्त्रम् । नच तन्मात्रपरमपि, श्रीहितत्तण्डुलतस्पिष्टानामेव यत्र ला. भसम्भवस्तत्र प्रयोगेऽनन्यलभ्यत्रीहिनियमेनैव व्रीहि विधेः क्र. तूपकारित्वस्य वक्तुमुचितत्वात । अस्तु वा तन्मात्रनियमपरं, उभ- यथापि निगम्यावयवेषु नियम्यतावच्छेदकत्वेन ब्रीहित्वादन्य- किश्चिद्रूपमवश्यमभ्युपेयं, न हि निरूद लक्षणया प्रतीयमानव्यक्त. रिव साम्प्रतिकलक्षणया प्रतीयमानावयवानां शक्याकृत्त्वाव- च्छेदक इति शक्यं वक्तुम्, केनापि रूपेण बुद्ध्यारूढस्यैव साम्प्रति- कलक्षणासम्भवात् युगपच्छक्यलक्ष्ययोर्जातिव्यक्त्योरुपस्थापिका- या निरूढलक्षणायास्तदा बुद्ध्यारोहानपेक्षयात् । तच्चावयवगामि रूपं सकलबीटारम्भवकावयवेष्वनुत्तं यवावयचेभ्योव्यावृत्तं जातिगुणसंस्थानाद्यात्मकं केषु चिनीवारावयवेषु सम्भवद्वृत्ति कमिति नियम्यतावच्छेदकावच्छि नसकलावयवि लाभदशायां स. म्भवति व्रीहिशास्त्रस्य नीवारगतविकलतदवच्छिन्नाव यवनिया- मकत्वं, एवं च सति पूर्वोक्तन्यापेन बीवियवशास्त्रबांधितमपूर्वसा. धनं स्वगतबीहिपदलक्षितमुद्दिश्य धर्माविदधनिविधिभिः श्रीहि गतापयवानापिय नीवारगतावयवानामपि कथं न धर्माः प्राप्नु- युः । नीवारगतावयपानामप्यलाभे च वीहिशास्त्रं यदि यवगतवि. कलत एवं ययानप्युपादापयेत् तदा श्रुतिविनियोग्याः प्रोक्ष- णादयोलिङ्गविनियोज्या वीहीणांमेधेतिमन्त्रादयो नीवारावयवे- ष्विव यवावयवेष्वपि भवेयुरेवं यवशास्त्रोपादापितेषु श्रुतिविनि- योज्यानां सम्भवेपि लिङ्गविनियोज्यानामसम्भवः सथापि (य. वशास्त्रोपादापितेषु यवेषु लिङ्गविनियोज्यानामसम्भवः) यच्छा- वावगतापूर्वसाधनत्वं हि पद्धर्मविधिषद्देश्यतावच्छेदकत्वेनाभिपतं --