पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कर्षेण न विहितकाळानुग्रहः तथा विहितद्रव्यसनिकषेणापि न विहितद्रव्यानुग्रहः । कथं भवतापि वीहिशास्त्राग्नीवारप्राप्तिः क- ध्यते, कथं वा सत्यामपि तस्यां मुख्यत्वेन प्रतिनिधित्वेन च गृह्यमाणयवादधर्मलाभालाभध्यवस्था । उच्यते । अस्ति तावन्मन्त्राणामिव विधीनामपि करणपाठान् क्रवर्धत्वम् अर्थवादाधिकरण वार्तिककता तदुपपादनात् । अन्यथोपकारपदार्थपृष्ठभावेन शास्त्रातिदे- शोक्राकरस्थाया उच्छेदापत्तेः । तत्र च सामान्मन्त्राणां प्रयोगसमवेतस्मरणमिव विधीनां प्रधानविध्यपेक्षिताज्ञाता- समर्पणपेव द्वारत्वेनाध्यवसीयते । समर्पणं च कचित्पा- प्तिः काचिनियम इत्यपि तत एव हेतोर्लभ्यते । एवं चानेन मन्त्रणतदर्थप्रकाशनद्वारेण क्रनावुपकर्तव्यमितिशास्त्रार्थवत् 'बीहि- भियत इति विधिना प्रतिद्रव्यनियमेन क्रतारूपकर्तव्यमित्यपि शास्त्रार्थोऽध्ययनविधिमूलक एत्र सर्वैरभ्युपेयः, नियमश्चामेययाग- स्वावच्छिन्ने हविःप्रकृतित्वेन ब्राहय एवोपादेया इत्येवंरूप- स्तदेवानन विधिना सिध्यति । यद्यत्र स व्रीहित्वाकृत्या लोकदृष्ट- व्यक्तिलक्षणावेलाया स्वपरिच्छेद्यत्व योग्यतासम्बन्धेन तद वयवा अपि लक्ष्यन्ते सन्निहितपि प्रयोगा, येषु व्रीहितन्दुला एव त. पिष्टमेव वा लभ्यते नतु व्रीहयः । नच तत्पयोगस्थानामागो. ययागव्यक्तीना यवप्रयोगस्थानामिव परिहारेणेव नियम इत्यत्र किश्चिद्धेतुभूतं शास्त्रपस्ति, अतस्तासु व्रीहिनियमासम्भवादवय- वनियमसम्भवात्तनियमेन तास्वपि बीहिविधेरुपकारकत्वाय वी. हिपदं लक्षणयाऽवयवपरं कल्पयितुमुचित प्रकरणावगतशेषिभा. वाना तासामनुरोधेन नियमात्मककार्यानुरोधेन क्लुप्तलक्षणाकल्प- ने समर्थस्य 'गुणे त्वन्याय्यकल्पना' इति न्यायस्य हि क्लुप्तलक्षणा. या विषयाधिक्यकल्पकत्वे नाश्चर्यम् , आग्नेयादिप्रधानविधिरपि .