पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- इत्त्वाभ्यां भावनैवोच्यते । भावना नाम भवितु- TARATHAmansamania USINESHEmmananesameer नाय भावनेत्येकवचनम् । द्योतनफलं चार्थभावनास्वरूपनिरूप- णावसरे वक्ष्यामः । ___ कोऽसावाख्यातार्थप्रतीतिविषयो भावनापदार्थः यद्बोधव- शाद्भवतीत्याख्यातस्य व्यापारपरत्वमुच्यते नहि भावना व्यापारभिन्नाऽस्ति, सत्वे वा भवतीत्यादेलाक्षणिकत्वापात इ. त्यत आह । भावना चेति । अत्र च नाख्यातशक्यता- वच्छेदकं कथ्यते भवितृभावकयोस्तदन्तःपातानभ्युपगमात् । नापि भावनालक्षणं भवनानुकूलव्यापारत्वमात्रस्यैव लक्षण- स्वसम्भवेनेतरपदवैयर्थ्यांपत्तेः सकलस्यापि प्रकृत्यर्थेऽतिप्र- सक्तेश्च । किन्तु यथा का धूमनिष्ठा व्याप्तिरिति प्रश्ने धूमत्वमित्यु. चरेऽतिप्रसङ्गादिदोषाभावेपि प्रश्नस्थव्याप्तिपदेन वन्ह्यनुमितिकर- णीभूतज्ञानविषयस्य विवक्षितत्वाद्यपदार्थविशिष्टधूमत्वं तत् ज्ञानविषयस्तत्पदार्थविशिष्टधूमत्वप्रतिपादकमुत्तरमुच्यते तथा यज- तिभवतीत्यादौ यादृशार्थप्रतीत्यप्रतीतिभ्याम्भावयतीत्याख्याता- थविवरणभावाभावौ भवतस्तादृशार्थस्य पूर्वग्रन्थे भावना- पदनिर्दिष्टस्योक्तविधजिज्ञासायाममुना ग्रन्थेन तत्स्वरूपं क- थ्यते । नचैवमाख्यातार्थप्रतीतौ भवित्रादेर्नियप्रतीत्याऽऽख्या- तशक्यान्तःपातः शक्यः यथा करणत्वादौ गृहीतशक्तिक- यापि तृतीयाविभक्त्याऽऽकाङ्काविशेषसहकृतया क्रियासामान्या- न्वितमेव करणत्वं गम्यते ऽतएव क्रियाङ्गत्वं श्रौतं क्रियाविशे- पावगतिः परं पदान्तरलभ्येतिव्यवहारः शास्त्रे, तथा व्यापारत्वेन व्यापारे गृहीतशक्तिकाख्यातादाकासासहितात्कर्तृनिष्ठतया भा- व्यभवनानुकूलतया चं व्यापारपतीतिसिद्धेः यथा च "प्राका. शावयवे ददात्येकाङ्गा इत्यादौ परपदार्थसम्बन्धविधिपक्षे बा.