पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्ततावच्छेदकनिरूपणम् । भावनात्मा कृदन्तेषु तस्मान्नैवाभिधीयत"(२) इति । (तं० वा० २ अ०.१ पा० १ अ०) तव्यस्यापि कृद्विशेषकृत्यान्तर्गतत्वाद्भावनानभिधायि (त्वेपि) कृत्यानां औषे स्मरणात्प्रेषस्य च पुव्यापारात्मकभावनाविषय- स्वाद्भावनाक्षेपकत्वमस्ति । अध्येतव्य इत्यत्र त्वध्ययनस्यामाप्त- त्वात्प्रैषासम्भवेन यद्यपि विधिपरत्वमाश्रीयते । उक्तं हि- "प्रवर्तनस्मृतिप्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रेषणं सर्वे विधित्वं प्रतिपद्यते"(तं.वा.२अ.१पा.१अ.) इति । ___ तथापि प्रैषविध्योः प्रवर्त्तना(त्वास)त्वाविशेषादस्त्येव भाव- नाया आक्षेपइति युक्तमाख्यातत्त्वं भावनाशक्ततावच्छेदकमिति । सत्यपि लिङोविध्यभिधायित्वे “यस्योभयं हविरार्तिमाच्छे" दित्यत्र यच्छब्देन विधिशक्तिप्रतिबन्धाद्विध्यनापत्तिः । “य एवं विद्वानग्निं चिनुते", "योदीक्षितोयंदग्नीषोमीय"मित्यत्र तु विद्वत्तादी- क्षयोर्यच्छब्दान्वयान चयनपश्वालम्भयोविधिप्रतिवन्धः, जतिल- यवाग्वेत्यादि तु पयसा जुहोतीति विध्यन्तरशेषत्वान्न विधिपरं अतोयुक्तमेवाख्यातत्वलित्वयोर्भावनाविधिशक्ततावच्छेदकत्वमि- त्याशयः । यद्यपि विधेराख्यातार्थभावना भिन्ना यजेतेत्या- दौ प्रतीयते तथापि गवानयनं कुर्वित्यत्र विध्यात्मनाऽवगत- स्य व्यापारस्य तत्कारयेत्यत्राख्यातार्थत्वात्तयोरनतिभेदद्योत- (२) यदि चाख्यातवत् स्वप्राधान्येन कृदन्तेषु भावनाऽवगम्येत ततो धात्वर्थप्रतीतिनिरपेक्षभावनाप्रतीत्युपपत्तेर्वाच्यत्वं कल्प्येत, धा- त्वर्थनिष्पादकत्वेन तु तद्गुणत्वप्रतीतेधात्वर्थप्रतीतिसापेक्षत्वान्न साक्षाद्वाच्यत्वकल्पना युक्तेत्याह । धात्वर्थ इति । देवदत्तेनेत्यादिकार- कविभक्ति श्रवणे यथा कारकसिद्धार्थत्वेन तद्गुणतयाऽप्यवगम्यमा- नाया भावनाया न कारकविभक्तिवाच्यत्वं कल्पितं तथा धात्वर्थ- सिद्ध्यर्थत्वेनाप्यवगम्यमानाया न धातुधाच्यत्वं कल्पनीयमिति दृष्टा- न्साथै कारक ग्रहणम् ।