पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वादिभ्योनिवृत्तिसम्भवात् । किश्च हन्तिविधौ यद्यपि घीहिपदं न श्रूयते तथापि दृष्टप्रयो- जनानुरोधेनौषधमात्र विषय एवासी भवन्न प्रकृतप्रधानहविष्य. विशेपेपि सानाय्यादिविषय इत्युक्तं तृतीये 'तेपामर्थन सम्बन्ध' इत्यधिकरणे | यथाहुः- 'कचिदृष्टनिराकारः क्षीणापत्तिशक्तिकः । नाष्टार्थोपि मोड भ्यत्र शक्यः कल्पयितुं विधि'रिति । तत्कथमाकर त्रीहिपदश्रवणपि घुवादिषु हन्तिरापाद्यते इत्याश्चर्यम् । यद्यपि तदापादनं तेप्वनिवार्ग स्यात् तथापि 'पत्नी संनयति' इत्येकवचनवत्सर्वत्र हन्तेरहष्टार्थच- मेव स्यादिति कथं वैरूप्यापत्तिः । नचैवमपि प्रोक्षणं तेषु स्यादिति चेत् ? न, लक्ष्यसाधनतायाः प्रणाडिकाविशेपेण वैशिष्ट्यात् । विशिष्टोदेशे वाक्य भेद इति चेत् ? भ्रान्तोति, नहि वयं प्रोक्षणादि. वाक्ये प्रणाडिकामुद्देश्यविशेषणतया निवेशयामः, किन्तु व्रीहिपदेन व्रीहिलेकार्थसमवायितया लक्ष्यो यः साधनताविशेषस्तत्परिच- योपायतया निर्दिशामः योहि व्रीहिशास्त्रस्थतृतीयावगतसाधनता- विशेषो निष्कृष्टशत्त्यात्मकः प्रोक्षणवाक्यम्थव्रीहिपदेन लक्ष्यते ऽसौ स्वेनैवात्मना खुवादिभ्योपाहता, व्यापारभेदेन तु प. रिचीयते । दृश्यते ह्यनेकव्यापारैः कार्य कुर्वतां काष्ठस्थालया- दीनां भिन्नसामर्थ्यव्यवहारः काष्टस्थाल्योरन्यतरेण पाक- सिद्धिं भ्रान्त्या योमन्यते, वदन्ति तं प्रत्येवं, भिन्नमामी- तयोभयमप्यावश्यकमिति । परंतु भिन्नजातीयमपि स्थालीद्वयमे- कक्रियायामावश्यकं मन्येत तं प्रति तुल्यमनयोः साम- यमकयवालमित्येव चदन्ति । अत एव व्यापारक्येन व्रीहिपदल क्षितनिष्कृष्टशक्त्यात्मनः साधनत्वस्य यवसाधारण्यात्प्रोक्षणादीनां तत्साधारण्यसिद्धेः अन्यथाऽथ यावत्सकलमीमांसकानां प्रणा- डिकाविशेषविवक्षणेन सुवादिपरिहारं वदतां श्रुतवीहित्वस्य .