पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- रम्भाभावेन सा न कातिदाशमिकसिद्धान्तयोरुच्छ दापत्तिः । किञ्च 'त्रिपथमामन्वाह विरुत्तमा मितिविहितास्त्ररभ्यासोन पृथ- ग्धर्मः, किन्तु प्रथमोत्तमस्थानधर्मस्ततश्च यत्रतत्रस्था प्रवोवाजीया न त्रिरम्यासं लभते, प्रथमस्थाने विद्यमाना तु या काचित्रिरभ्यास लभत इति नक्मे सिद्धांतितं, तत्कथं सङ्गच्छते, यदि प्रथमादि- शब्दा अपूर्वसाधनलक्षणार्थाः स्युः । न हि प्रथमस्थाने किश्चिदपूर्व क्लुप्तमस्ति यत्साधनलक्षणया स्वष्टव्यवस्थितानुष्ठानसिद्धिः स्यात् । सर्वा अपि हि सामिधेन्यः समिद्धानिप्रकाशनेन दृष्टार्था एव । त. स्मात्समिद्धाग्निप्रकाशननिवृत्तिप्रणाडिकया प्रधानापूर्वसाधनत्वलक्ष. णामङ्गीकृत्य व्रीहित्वं तावत्पाथम्यायविवक्षितं वाच्यं तथामति सामिधेनीमात्रे निरभ्यासापत्तिः । किंच 'रथन्तरे प्रस्तूयमाने नि- मीलयेत् बृहति प्रस्तूयमाने समुद्रं मनसा ध्याये' दितिविहिताना बृहद्रथन्तरधर्माणां निर्देशाब्यवस्थे'तिसूत्रकृता नवमे सिद्धान्ततम् । तत्र निर्देशशब्दनोद्देश्यतावच्छेदकयाबृहत्वरयंतरत्वयार्भेदन निई शोऽभिप्रेत' इति भाष्ये व्याख्यातम् । याद लाक्षणिकपपूर्वसाधनत्वं प्रोक्षणादिविधाविव निमीलनादिविधावुद्देश्यतावच्छेदकं स्यात् सदा बृहद्रथन्तरयोरेकं माहेन्द्रस्तोत्रमनूय 'रथन्तर पृष्ठं भवती' तिवत 'बृहत्पृष्ठं भवती' तिवचनाभ्यां विधीय पानयोरेकस्तोत्रापूर्वसाधन स्वमवगतमिति तदुद्देश्यतावच्छेदकीकृत्य व्रीहित्वन्यायेन रयंत. रत्वादेरविवक्षां च स्वीकृत्य निमीलनादीनां विधानादव्यवस्थैव मसम्येत । नचोक्तवचनयोः स्तोत्रोत्पत्तिपरत्वादामिक्षावाजिना. भ्यामिव सामम्यां स्तोत्रभेदाद्भिन्नापूर्वसाधनत्वमेव तयोरिति शङ्ग, अनयोः स्तौतिधात्वश्रवणाद्गुणसङ्क्रान्तशक्तिकत्वाच्च तद्धातुयुक्त स्य गुणासङ्क्रान्तशक्तिकस्य च 'पृष्ठैः स्तुवत'इतिवचनस्यव पशु सोप्राधिकरणन्यायेनाचाराग्निहोत्राधिकरणन्यायेन च स्तोत्रोत्पत्ति- फरताया वक्तुमुचितत्वात् । तस्मान्नवापूर्वसाधनलक्षणाजीकारः क.