नियमविधिनिरूपणम् ।
श्रीासम्भव एवं नीवाराणां शास्त्रार्थत्वमिति चेत् ? तर्हि सि-
दं वचसैव नैमित्तिकत्वं, एवं च ब्रीहिनीचारगतावयवानां प्रा-
तिस्विकरूपेण नित्यत्वानित्यत्व भेदे सत्यप्यपूर्वसाधनत्वात्मकनित्य-
रूपक्रोडीकृतानां नित्यपोक्षणादिसम्बन्ध उपपादनीयः तदा ते-
नैव रूपेण सम्भवत् सङ्ग्रहः फलचमसः किमित्युपेक्षणीयः ।
यदि त्वपूर्वसाधनलक्षणां परित्यज्य संस्कारवाक्येषु बी-
धादिपदं मुख्याधमङ्गीक्रियते तदा प्रतिनिधिभूतनीनारा.
देनैमित्तिकफलचममादेश्च नियमोक्षणादिसम्बन्धाऽसम्बन्धी स.
म्भवतः ब्रीहिगतानामिव नीवारगतानामध्यवयवानां व्रीहिपदेन
विषयीकरणेपि सोमपदेन फलचमसस्पाविषयीकरणात्, तस्मात्फ-
लचमसस्य नित्यधर्मालाभः प्रतिनिधेस्तु तल्लाभ इति सिद्धान्तानु-
रोधेनाप्यपूर्वसाधने लक्षणा नाङ्गीकार्या ।
ननु सत्यामपि तस्यां शक्यत एवासौ रक्षितुं, नैमि-
त्तिकं हि नित्यापवादत्वेन विधीयमानं न तत्समकालं विधी-
यते धर्माच नित्यवद्विधीयमानाः स्वविधिसमकालप्रवृत्तनित्य-
विधिशेपत्वेन निराकासा न पुनमित्तिकविशेषत्वं प्रति-
पद्यन्ते, प्रतिपद्यन्ते च प्रतिनिधिशेषत्वं नित्यविधेरेव तत्पाप-
कत्वात् । नच व्रीहिविधेः प्रोक्षणादिविधेश्च नित्यत्वेन युग-
पत्प्रवृत्तत्वात्योक्षणादिविधेः प्रागवगतमपूर्वसाधनत्वं ब्रीहिष्विति
मोक्षणादिविधिगतेन व्रीहिपदेन तल्लक्षणेत्यपि शां, यवेषु
धर्माकाटोपशमार्थापूर्वसाधनत्वलक्षणार्थमेव स्वतुल्यप्रवृत्तिकतया
प्रतीयमानमपि बीहिशास्त्रं प्रतीक्ष्यैव प्रोक्षणादिविधिप्रवृत्यभ्युप-
गमात् । एवं च व्रीहिशास्त्रोपस्थापितसाधनत्वं लक्षणया तद्विषयी-
कृतत्वाविशेषेण व्रीहीणामिव नीवाराणां ततुल्यवृत्तिकशास्त्रबो-
धितसाधनत्वानां च यवानामपि सञ्चन्हाद्भवति धर्मसम्बन्ध उभये.
,
पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३००
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
