पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २९० भाट्टालङ्कारसहितमीमांसान्यायप्रकाश- हाशावरोधात् उपांशुयाजस्यापि तावता'मिति वाक्य नि- त्यवदाज्यावरांधमनीतेः, अतः पुरोडाशप्रकृतित्वेन विधेयाः, त. खेन च तन्नियमोनिर्वापादिविधिभ्योपि प्राप्नोति, तेषु हविर्निवी- पादिसंस्कार्यत्वेन बाइयः श्रुताः प्रयोजनमपेक्षन्ते 'कपालेषु धप- यति इति प्रयोगान्तर्गतश्रपणविधिना च सामान्यतः प्रकृतिद्रव्यो- पादानाक्षेपाकिञ्जातीयं पुरोडाशप्रकृतिद्रव्यमुपादेयमिति भवत्या- काझा, उभयाकामया परस्परान्वये भवत्येव व्रीहीणां प्रतिनिधिनि- यमः। यद्वोक्तरीत्या प्रकृतिद्रव्यविशेषाकालायां षष्ठान्त्यन्यायेन 'बी. हीणां मेध सुमनस्यमान' इति मन्त्रादेव व्रीहिनियमसिद्धिः, अनो न व्रीहिनियमार्थमपि तच्छास्त्रम्, किं त्वषघातमोक्षणशास्त्रयोर्यव- विषयत्वज्ञापनार्य, तेन ब्रीहीणामपूर्वसाधनत्वे ज्ञापिते हि (दाति) इन्तिपोक्षणशास्त्रयोवहिपदेन पूर्वावधृतापूर्वसाधनत्वलक्षणासम्भ- वात् भवति तयोर्यवसाधारण्यम् . इतरथा तस्या असम्भवान तत्सिख्येत् । ननु श्रीहिशास्त्राभावेऽपि श्रपणविध्युत्था प्रकृतिद्रव्याकामा प्रो. क्षप्रदिविध्युत्थां च प्रोक्षणादिसंस्कृतवीहीणां कैमर्थ्याकालामालो. च्य यदा तादृशमीहीणां प्रकृतिद्रव्यतयाऽन्वयः कल्प्यते तदा प्रोक्षणादिसाध्यत्वमपि तेषां न बीहित्वाकारेण सम्भवतीत्यालोच्च कल्पितपतिद्रव्यत्वमूलकापूर्वसाधनत्वाकारेणैव तेषां तत्साध्यत्व- मित्यपि कल्प्य नैवेति भवेदेव प्रोक्षणादेर्यवसाधारण्यामिति चेत् । न, श्रीडिशास्त्रबोधितापूर्वमाधनत्वलक्षणायां सत्यां मुवादिव्या. वृत्यर्थमपूर्वसाधनत्वस्य बीहित्वेन विशेषणे युगपद्धत्तिद्वयविरोधा- तण्डुलप्रणाडिकयैव तद्विशेषणीयं, तादृशापूर्वसाधनत्वं च यवेष्वस्ती- ति भवति प्रोक्षणादेस्तत्साधारण्यं 'ब्रीदिशानाभावेनापूर्वसाध- नलक्षणाया अभावात्कल्पितप्रकृतिद्रव्यत्वलभ्यापूर्वसाधनत्वाका. रेण प्रोक्षणादिसाध्यत्वं कल्प्यं, तत्र च सुवादिव्यावृत्तिरुपस्थि. .