पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाश- सङ्गच्छते । यस्तु प्रतिग्रहादिनियमविधाकव्याप्त्युपन्यासः सोऽति- तुच्छः स्वोक्तिविरुद्धश्च । यथाहि प्रतिग्रहादिविधिवलात्मतिग्रहादिप मत्तान्ब्राह्मणानुपलभ्यः निराकाङ्क्षा दानादिविधयो नान्यान्प्रति. ग्रहीत्रादीनाक्षिपन्तीति ब्राह्मणानां दानादौ पतिगृहीतत्वादिनियमो. लभ्यते तथा तैव विधिभिः प्रवृत्तब्राह्मणादिभिः प्रतिग्रहा- र्जितधनान्युपलभ्य निराकाङ्क्षः क्रतुविधिभिनन्धिानि धनान्या. क्षिण्येरनिति प्रतिग्रहाद्युपायार्जितधननियमः क्रतुषु सिद्धयत् । अस्त्वेवामिति चेत् तथा सत्यध्ययनस्यात्वर्थत्वेपि तनि यमस्य क्रनुपयोगसम्भवादध्यायस्य क्रत्वर्थत्वपुरुषार्थत्वेऽनभ्युपगम्य यथा- ऽथज्ञानार्थत्वं स्वीक्रियते तथा द्रव्यार्जननियमस्याप्युक्तरीत्या ऋतू. पयोगसम्भवाद्दपार्जन केवलद्रव्यार्थमेव स्यान्न तु पुरुषार्थ तथा- सति नियमादृष्टकल्पनापन्यासोद्रव्यार्जनाधिकरणे भाष्यकारी. योन सम्भवेत् । यच्च देवा तव्याख्यानं शिलोञ्छुदायाधभावे प्रतिग्रहाय. नुष्टानादभ्युदयः प्रतिग्रहादिभिन्नापायानुष्ठानात्प्रत्यवायोवा क- ल्यत इति तदपि न घटेत । अथोच्येत द्रव्यार्जनस्य द्रव्यस्त्र. रूपार्थत्वं तट्टीकायां द्रव्यार्जनाधिकरण एव 'न चाधानव- द्भवितुमर्हती'तिभाष्यव्याख्यानावसरे निराकृतं, यथा शग्निवि- द्ययोराधानाध्ययनाविध्यभावेऽनन्याक्षेप्यत्वेन क्रतुविधिभिनिया ताक्षेपे प्रसक्तेऽग्निविद्यामात्रार्थत्वेनाधानाध्ययने विदधद्धां वि- धिभ्यामग्निविद्यागोचरनियताक्षेपप्रतिबन्धात्तसिद्धाग्निविधानिय मः क्रतुषु सिध्यति एवं प्रतिग्रहादिविध्यभावे यदि ऋतुवि धिकर्तृको धनाक्षेपोनियमेन प्रसज्येत स च प्रतिग्रहादिविधिभिः प्रतिवध्येत तदा प्रतिग्रहादिविधेरकत्वर्यस्वपि तत्सिद्धधनानयमः ऋतुषु सिध्येत् । नचैवमास्ति प्रतिग्रहादिविध्यभावेऽपि जी- वनार्थमनियमार्जितधनोपादानेनोपपन्नैः [: क्रतुविधिभिरनाक्षेपसम्भः