पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । वर्तते इत्यविवादं एकसामेतिविधिना च स्तोत्राङ्गत्वेनैव त्रित्व. विधानं न सामाङ्गत्वेनेति निरूपितं नवमे प्रत्यूचसामगाना- धिकरणे । एवं च स्तोत्राङ्गत्रित्वपूरणाय स्तोत्राङ्गभूतदयापेक्षायां प्रवर्तमाने यद्योन्यामितिविधिनोत्तराद्वयं स्तोत्राङ्गत्वेनैव विधेय, सामसम्बन्धस्तु तद्वशेनैव सम्भवत्प्राप्तिकत्वादनुवदितव्यः पूर्ती के वभिपवसम्बन्धवत् फलचपसे भक्षसम्बन्धवच्च । स्तोत्रेचों- रुपायत्वेनैव नियमइति यद्योन्यामित्येतदुपायनियमपरमेव न कार्यनियमपरम् , आस्तां या त्वदुदाहृते 'वामदेव्यं पृष्ठं भवति'इ- त्यादौ कार्यनियमः, उभयनियमस्तु न मम्भवति तदुदाहरणेऽरु. कहायनीन्यायनैवोभयनियममम्भवे विधिवेयर्थात् प्रपञ्चितं चैतत्फलसाङ्कखण्डने । भवतु वा विधिमूला नियमयसिद्धिः तथापि कार्यनियमस्य न विधिफलत्वं सङ्गच्छते यथैव हि दल- नादिनिसिहन्तिविधिना जायमानापि न तत्फलं अविधयगा. मित्वाद्विपकृष्टत्वाञ्च, तथा कार्यनियम उक्तविधिभ्यः सिध्यन्नपि न तेपां फलं ताभ्यामेव हेतुभ्यां अप्राप्ततादशायां साधनविधानं कुवतैव विधिना बोधितसाध्यसम्बन्धेन निराकाङ्क्षण साधनेन साध्यान्तरानाक्षेपाद्भवन् हि साध्यनियमः साधननियमोत्तरमे- वात्मानं लभते । नच श्रुतत्व विधेयसम्बन्धनिरूपकत्वाविशेषेण विधेयोदेश्ययोस्तद्गामित्वाभ्यां फलत्वाफलत्वविवेकासम्भवः सा. ध्यसाधनसम्बन्धं बोधयतोविधेस्तत्सहकारिणां वा श्रुत्यादीनां साधनांश एव प्रामाण्यात् साध्यांशस्य तु नान्तरीयकत्वात् । अत एवा हुर्भट्टाः 'श्रुत्यादिभिः प्रमाणैश्च शेषत्वस्व निर्णयः । शेषी तद्विषयत्वेन लक्ष्यते नान्तरीयक'इति । अतएव 'अथातःशेषलक्षण'मित्येव मूत्रितं न शपिलक्षणमिति । प्रमाणफलस्य च प्रामाण्यविषयगामित्वे सम्भवति नान्यगामित्वमु चितमिति नोक्तविधीनां कार्यनियमफलत्वांशेनाव्याप्त्युदाहरणत्वं