पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८५ नियमविधिनिरूपणम् । न्तरेण ज्ञायते किन्त्वनेनैव विधिनेति भवत्ययमपूर्व- प्यसावित्याशयेन शङ्कने। किन्विति। परिहरति । अनेनैवति । य. दत्र प्रयाजादिपरिहारेण पिलितानां पण्णां स्वर्गसाधन विधित्सितं न तदुत्पत्तिकाक्ये स्वर्गकामपदाध्याहारेपि सिध्येत् प्रत्युत्पत्तिवा- क्यं सदध्याहारे सति एकैकस्यैव यागस्य स्वर्गार्थत्वापत्तेः आग्ने. यादिवाक्येष्विन प्रयाजादिवाक्येष्वपि फलाकाङ्क्षासाम्येन तदध्या- हारापच्या प्रयाजादीनामपि स्वर्गार्थत्वापाताच्च । नापि सार्वका. म्यवाक्यात्तत्सिद्धिः स्वर्गकामवाक्यस्याप्यध्ययनकर्तव्यतां बोध- यताऽध्ययनविधिना स्वर्गेतरफलसाधनत्वप्राप्तरेव सार्वकाम्यवि- धिफलत्वाङ्गीकरणादित्याशयः । अथ 'नियमः पाक्षिके सती'त्यत्र कस्य पाक्षिकत्वं विव. क्षितं ? विध्युपात्तस्यानुपात्तस्य यस्य कस्यचिद्वा ? आये विधेयस्योद्दश्यस्योभयस्य वा ? न द्वितीयतृतीयौ 'नीही- नवहन्ति' इति विधेयावघातस्यैव पाक्षिकत्वेन केवल विधेयनियम- विधावव्याप्तः । नाद्यः केवलकार्यनियमे विधेयनियमसहित च कार्यानयमेऽव्याप्तेः तथाहि 'यद्योन्या तदुत्तरयोर्गायती'त्यस्य वि- घेरास्ति त्रिरूपत्वं यस्य स्तोत्रीयसाम्न उत्तराग्रन्थे योनिविषम- च्छन्दस्के उत्तरे पठिते तयोस्तावदयमपूर्वविधिः एतदभावे हि सम- च्छन्दस्क एव के अप्यूची नावमिकच्छन्दस्कन्यायसहकृतात् 'एक सामतचे क्रियत' इति शास्त्रात्माप्नुयात्, यस्य तु स्तोत्रीयसाम्नस्तत्रैव योनिसमच्छन्दस्के ते पठिते, प्रकरणादिनावगतस्तोत्राङ्गभावे वा तत्रो भयनियमः यथैव हि स्तोत्रीयसाम्नस्तृचगेयत्वनिवाीय योनिभि- अदयस्यानियमेन प्राप्ती उत्तरयोर्नियमः क्रियते तथा स्तोत्राङ्गत्वे- नावगतयोरप्रगीतयोः स्तोत्राचायोगादनियमेन सामप्राप्तौ सम्भ- वति योनिसाम्ना नियमः। यत्र तु वैकृते 'वामदेव्यं पृष्ठं भवती'त्या-