पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ भाट्टालङ्कार सहितमीमांसान्यायमकाशे- स्वर्गकाम'इत्यादिः । यागस्यहि स्वर्गार्थत्वं न प्रमाणा- ? तस्यैव विधय शब्दार्थत्वात् आकरे नियमस्यार्थात्सिद्धघुक्तिस्तु पोढिमात्रमुक्तन्यायात् 'तोभायोमुपेयादित्याद्यव्यापकत्वाच । न ह्याक्षेपात्पूर्व हन्तिविधिरिव रागात्पूर्वमसौ विधिः प्रवृत्त इति श- क्यनिरूपणीमत्याह । तत्तुच्छम् , तथासति नियमविधेरपि श्रुतहान्यादिदोपत्र ययुक्त त्वेनाक्लुपादृष्टसाधनताप्रापकन्येन चापराविधिद्वया दौर्बल्यापत्तेः वि. ध्यन्तरविवकेन नियमावधिनिरूपणफलस्याकरस्थनियमविधिमा- वल्यव्यवहारस्वाच्छदापत्तरित्यलं पल्लवितेन । ननु किमुक्तापूर्वविधिलक्षगोदाहरणम् ? उदाहृतमेव वात्तिके 'वीहीन्योलती तिचेत् ? न, 'अग्नये जुष्टं मोक्षामि'इत्येवंरूपस्य मन्त्रस्य प्रकृतदेवतासम्बन्धद्रव्यकर्ममोक्षणप्रकाशकस्य प्रकरणा वगतक्रत्वङ्गभावस्य लिङ्गात्पोक्षणार्थत्वावगतौ सत्यां मोक्षणकर्स- व्यतामन्तरेण तादानुपपत्यैव प्रोक्षणप्राप्तेरुक्तविधियादिति शङ्कां तुच्छत्वेनानिराकृत्याभ्युपेत्यैव तावदुदाहरणान्तरमाह । यति । अयन्तापूर्वसाध्यसाधनभावस्य पदद्वयज्ञाप्यत्वमभि पेत्य दर्शादिनामोपेक्षणम् । ननु विश्वजिन्न्यायात् 'अगन्ममुरः सुवरिति दुक्तन्यायसहिताद्वा वर्गार्थत्वस्यापि प्राप्तेः कथं तद्विधेरप्यपूर्व- विधित्वमित्यत आह । यागस्थीति । नहि विश्वजिन्न्याय उक्तमन्त्रो वा स्वयं स्वर्गार्थत्वे प्रमाणम् , प्रकृतविधौ स्वर्गकामप. दकल्पने परं प्रभाणं स्यात् ततश्चैतद्विधिव्यतिरेकेण स्वर्गार्थत्वामा. प्तिरविहितेत्यर्थः । ननूक्तन्यायमन्त्राभ्यां स्वर्गकामपदं यदाग्ने यायुत्पत्तिवाक्येष्वेव कल्प्येत नोदाहृताधिकारवाक्ये, ततश्चोदाहृत- विध्यभावे तैरेव स्वार्थत्वप्राप्तिः, सम्भवति च साकाम्यवाक्याद- मन्त्रा.